________________
१आदिपर्व-४सर्गः] बालभारतम् ।
सचिवैः सत्यवत्या च बोधितोऽथ धुनीसुतः । प्रतिज्ञामङ्गभीर्भजे न भुवं न च सुभ्रुवम् ॥ १२७ ॥ बन्धूनां वा द्विजानां वा वीर्यादुद्भियते कुलम् । इति श्रुतिगिरा भीष्मः सत्यवत्या न्यवेदयत् ॥ १२८ ॥ द्विजं निजसुतं व्यासं तत्र निश्चित्य कर्मणि । सती यदा हृदा दध्यौ स तदैवाभवत्पुरः ॥ १२९ ॥ स मातुरातुरैर्वाक्यैरपि भीष्मस्य भाषितैः । शीलमाधुर्यधुर्योऽपि तत्कर्म प्रतिपन्नवान् ॥ १३० ॥ राज्ञी विचित्रवीर्यस्य भेजिवानम्बिकामथ । एष दुर्वेषभाक्शूकसंकोचितविलोचनाम् ॥ १३१ ॥ अन्धः सुतोऽस्या भावीति जल्पन्मातृगिरा पुनः । व्यासोऽम्बालां द्वितीयां स्त्री शूकपाण्डुमथाभजत् ।। १३२ ॥ अस्याः पाण्डुः सुतो भावीत्याख्यन्मातुः पुरो मुनिः । ततोऽन्धं धृतराष्ट्राख्यं सुषुवे सुतमम्बिका ॥ १३३ ॥ अम्बालाप्यङ्गजं पाण्डुपिण्डं पाण्डुमजीजनत् । अम्बिकाभावभोगार्थ पुनर्मात्रार्थितो मुनिः ॥ १३४ ॥ सोऽम्बिकाशूकसंदिष्टां हृष्टां शूद्रीमथाभ्यगात् । साप्यसूत सुतं धर्मविदुरं विदुराभिधम् ॥ १३५ ॥ अणीमाण्डव्यशापेन धर्मोऽयं शूद्रतां श्रितः । विदुरो धर्मविद्धीमान्भावीत्युक्त्वागमन्मुनिः ॥ १३६ ॥ धृतराष्ट्रो धियां धाम नागायुतबलोऽजनि । समस्तशास्त्रसंदोहच्छिदुरो विदुरोऽप्यभूत् ।। १३७ ॥ पुनषियशोम्भोधिशोषकुम्भोद्भवोऽभवत् । इलाविलासिनीजानिः पाण्डुरुद्दण्डचण्डिमा ॥ १३८ ।। यशःसुधाकरो यस्य वचसां कस्य गोचरे।
ब्रह्मणोऽपि निशा येन नूनं ज्योत्स्नी भविष्यति ॥ १३९ ॥ १. "विदुर' ग. २. 'गोचरः' क.
Aho! Shrutgyanam