________________
काव्यमाला।
इयमासाद्य कालिन्दीमिन्दीवरविलोचना । तेपे द्वादश वर्षाणि सामर्षा दुस्तरं तपः ॥ ११५ ॥ जन्मान्तरे त्वदिच्छेयं फलतादिति भाषिणि । पुरो भूत्वा तिरोभूते भूतेशे साग्निमाविशत् ॥ ११६ ॥ प्राक्पुत्री सैव पुत्रोऽस्तु तवेति वरदे हरे । सा पुत्रार्थोग्रतपसो द्रुपदस्य सुताभवत् ॥ ११७ ॥ पित्रा पुत्रोऽयमित्येषा ख्यापिता नरवेषभाक् । हिरण्यवर्मणः पुत्री दशार्णेन्दोळवाहयत् ॥ ११८ ॥ मत्वा कालेन तत्कूटं विग्रहोगे दशार्णपे । पित्रोर्दुःखितयोराप सारण्यं मरणेच्छया ॥ ११९ ॥ क्लिश्यन्त्यै मर्तुमेतस्यै विग्रहोपशमावधि । स्थूणस्तदटवीयक्षः स्खं पुंस्त्वं दयया ददौ ॥ १२० ॥ गत्वाथ ज्ञापयामास तद्वत्तं पितरावसौ। ततो हिरण्यवर्मापि ययौ संहृत्य विग्रहम् ॥ १२१ ॥ स्त्रीचिह्नं तु स्वयं तस्या बिभ्रत्प्रासादगर्भगः । श्रीदेऽप्यभ्यागते नाभ्युत्थानं स्थूणो हियाकैरोत् ॥ १२२ ॥ त्वं स्त्री सास्तु पुमानेव यावज्जीवं धनाधिपः । तत्स्वरूपरिज्ञातकोपोत्तापः शशाप तम् ॥ १२३ ॥ इत्यादातुं न यक्षोऽभूत्क्षमः पुंस्त्वं तैयार्पितम् । शिखण्ड्याख्योऽभवद्भीष्मभिदे सा द्रौपंदिस्ततः ॥ १२४ ॥ इतश्चारिच्छिदाभीष्मे भीष्मे ग्रीष्मातेजसि । प्रियाभ्यां सममक्रीडद्विचित्रनृपतिः सुखम् ॥ १२५ ॥ अतिस्त्रीसङ्गतो राजा पीडितो राजयक्ष्मणा ।
द्रष्टुं रम्भादिरम्भोरूरिव कामी दिवं ययौ ॥ १२६ ॥ १. 'स्त्रीवेषं ग. २. 'तस्य' ग. ३. 'व्यधात्' क-ख. ४. 'सा तु' ग. ५. 'तस्य रूप' ग. ६. 'परिज्ञान' क'प्रतिज्ञात' ख. ७. 'तथा' ग. ८. द्रुपदापत्यम्. ९. 'भीमार्क' ग.
Aho! Shrutgyanam