________________
१आदिपर्व-४सर्गः]
बालभारतम् ।
पशुरामं महेन्द्राद्रौ पुत्रि त्वं शरणं श्रय । शिष्यस्तस्य गिरा स त्वां गाङ्गेयः स्वीकरिष्यति ॥ १०२ ॥ तस्मिन्निदं वदत्येव रामशिष्योऽकृतव्रणः । तत्र स्वेच्छागतो ज्ञातकन्यावृत्तोऽब्रवीदिति ॥ १०३ ॥ एतत्तपोवनं प्रातः स्वयं रामः समेष्यति । इत्युक्ते तेन रामोत्का कन्या तस्थौ तथैव सा ॥ १०४ ॥ स्वयं प्रातः समायातमथ तं मुनिपूजितम् । नृपात्मजा कृपारामं सा रामं शरणं ययौ ॥ १०५ ॥ श्रुत्वाथ तत्कथां रामो रामां तामिदमब्रवीत् । शिष्यो भीष्मः शुभेन त्वां निराकर्ता गिरा मम ॥ १०६ ॥ त्वत्कामसिद्धये यामः कौरवं क्षेत्रमित्यसौ । गदित्वा तां समादाय कुरुक्षेत्राय चेलिवान् । १०७ ॥ प्राप्तो गुरुः कुरुक्षेत्रं रामो भीष्मेण पूजितः । जल्पन्नम्बाविवाहार्थं निराकारि गिरां भरैः ॥ १०८॥ रामो रथमथारूढः क्रोधनः प्रधनेच्छया । गुरुरप्याततायीति संनद्धः सिन्धुभूरपि ॥ १०९॥ क्षत्रान्तकेन रामेण समरं पुत्र मा कृथाः । इत्येवं गङ्गयाप्युक्तो भीष्मो नौज्झद्भियायुधम् ॥ ११ ॥ क्षोभयन्तौ भिया लोकं लोभयन्तौ च नारदम् । शोभयन्तौ दिवं बाणैर्युयुधाते क्रुधाथ तौ ॥ १११ ॥ जाह्नव्या वसुभिर्विप्राकारै रामास्त्रमूर्छितः । आश्वासितो धृतोत्साहश्चक्रे भीष्मो मुहुर्मुधम् ॥ ११२ ॥ युद्धं कृत्वाद्भुतं क्रुद्धौ त्रयोविंशतिवासरान् । तौ ब्रह्मास्त्रग्रहोदयौ वारितौ चातुरैः सुरैः ॥ ११३ ॥ रामेऽपि निष्फलीभूते पराभूतेति कन्यका ।
धुनीसूनुवधध्यानात्तपस्तप्तुं वनं ययौ ॥ ११४ ॥ १. 'उदित्वा' क. २. 'धृतोत्साहौ' ख.
Aho! Shrutgyanam