________________
३६
काव्यमाला |
आज्ञा यस्य महीभर्तुः कीर्तिश्च स्पर्धया मिथः । आरुरोह शिरोदेशमशेषपृथिवीभृताम् ॥ ८९ ॥ ततो विचित्रवीर्याय तिस्रः सत्यत्रतोऽहरत् । अम्बाम्बालाम्बिका बालाः काशिराजस्वयंवरात् ॥ ९० ॥ अथ धन्वानि धुन्वाना लोला: कोलाहलोद्धुराः । स्वयंवरनृपा वव्रुः प्रधनाय धुनीजनिम् ॥ ९१ ॥ नक्षत्राणीव तीत्रांशुभित्त्वा क्षत्राणि सिन्धुजः । राजानमिव राजानं शाल्वं कोपी लुलोप सः ॥ ९२ ॥ इत्यादित्यायमानौजा रथी त्रिपथगात्मजः । अवधूय वधूलुब्धानाजगाम स्ववेश्मनि ॥ ९३ ॥ चित्ते चित्तेश्वरः शाल्वो मां पीडयति शल्यवत् । अम्बाभिधा वदन्तीदं प्रैषि शंतनुसूनुना ॥ ९४ ॥ द्वे कन्ये तदसौ धन्ये मदवानुदवाहयत् । विचित्रवभृता चित्तभुवा प्रीतिरती इव ॥ ९९ ॥ प्राणद्यूते पणीभूता हारिता भवती मया । अङ्गीकरोमि नैव त्वां जेतारं भज भामिनि ॥ ९६ ॥ इत्थमम्बापि शाल्वेन न्यक्कृता धिक्कृताशया । पुनर्धुनीसुतं प्राप स्वसृसापत्न्यकाङ्क्षया ॥ ९७ ॥ ( युग्मम् ) आसक्तापि कुरङ्गाक्षी शङ्कनीया विचक्षणैः ।
अन्यासक्ता न वक्तव्या भीष्मेणेति न्यकारि सा ॥ ९८ ॥ नाग्रतश्च न पश्चाच्च संदिग्धा दग्धधीरगात् । तदाम्बा चटिकाचचुचरिष्णुवेदरोपमाम् ॥ ९९ ॥ दैवादुभयतो भ्रष्टा कष्टाद्गत्वा वनं मुनीन् । तं निवेद्य स्ववृत्तान्तं प्रव्रज्यां याचते स्म सा ॥ १०० ॥ होत्रवाहननामात्र तस्या मातामहः स्थितः । राजर्षिस्तत्कथां श्रुत्वा तां जगाद विषादभाक् ॥ १०१ ॥
१. चन्द्रमिव. २. 'बदरोपमा' ग.
Aho ! Shrutgyanam