________________
१ आदिपर्व - ४ सर्गः ]
बालभारतम् ।
सेवे नृपश्रियं नैव सत्योऽयं समयो मम । इति सत्यत्रतेनोक्ते पुनर्दाशपतिर्जगौ ॥ ७६ ॥ कथंचित्पितृभक्त्या त्वं भविता न प्रियः श्रियः । क्रुद्धास्तु केन रुध्यन्ते गजा इव तवाङ्गजाः ॥ ७७ ॥ ततः शान्तनवः स्माह साहसी दाशवासवम् । आजन्मापि समाचर्यं ब्रह्मचर्यं मया व्रतम् ॥ ७८ ॥ इत्युक्ते तेन गगनाद्गीर्वाणाः पुष्पवर्षिणः । अहो भीष्मप्रतिज्ञोऽयमिति भीष्मममुं जगुः ॥ ७९ ॥ तत्तां दाशपतिप्रत्तां स नृपाय मुदार्पयत् । भीष्मः पित्राप्ययं स्वेच्छाहूतमृत्युवरः कृतः ॥ ८०॥ उदूढया तया राजा रराज गुणनद्धया । सदा हृदयवर्तिन्या जिन्येव पल्वलः ॥ ८१ ॥ सेवमानः सतां क्ष्मापः क्रमात्पुत्रावजीजनत् । तपःश्रियं श्रयन्साधुर्यशोधर्माविवोज्ज्वलौ ॥ ८२ ॥ आद्यश्चित्राङ्गदोऽन्यस्तु विचित्रवीर्य इत्यपि । स गाङ्गेयेन ताभ्यां च राजाप्यासीत्रयीतनुः ॥ ८३ ॥ भूपे रूपेण साफल्यं सृजत्यनिमिषीदृशाम् । प्रभूचित्राङ्गदो भीष्माभिषिक्तो रिपुभीषणः ॥ ८४ ॥ येन निष्ठापितस्तत्रैः प्रतापै रिपुसागरः । अपार इव संसारस्तपोभारैस्तपस्विना ॥ ८५ ॥ चित्राङ्गदो मदोत्सेकाद्भीष्ममन्त्रावमानकृत् । चक्रे चित्राङ्गदाख्येन गन्धर्वेण महारणम् ॥ ८६ ॥ नाम साम्यधेवाथ गन्धर्वेण स मायया । हतो हिरण्मयी तीरे वीरो वर्षत्रयीयुधा ॥ ८७ ॥ अथ भागीरथीसूनुश्चक्रे भूचक्रभूषणम् । विचित्रवीर्यनामानं शत्रुशाखिद्विपं नृपम् ॥ ८८ ॥
१. 'कृती' ग. ३. 'दाशपतिः' ग. ३. 'हिरण्मती' क.
Aho ! Shrutgyanam
३९