________________
१आदिपर्व-४सर्गः] बालभारतम् ।
तेषां हेषां विशेषेण हयानामुपकर्णयन् । अभूद्वनावनीजीवकुलं सकलमाकुलम् ॥ १५२ ॥ केऽपि त्रस्ता भयग्रस्ताः क्रुद्धा युद्धाश्च केचन । वनेचरा हरीणां तु न भियो न रुषोऽभवन् ॥ १५३ ॥ विभिन्नयुग्यवाहेन वराहेण सहापरः । पातदूरगलद्भल्लो नययुद्धं रदैर्व्यधात् ॥ १५४ ॥ मुखे प्रविश्य सिंहस्य प्राणत्यागेन कश्चन । गृहन्प्राणांश्च कीर्तिं च लाभव्यवहृतिं व्यधात् ॥ १५५ ॥ सिंहं क्रोधितमायान्तं कश्चिदोष्ठपुटीधृतम् । शुद्धमूर्ध्वशरीरेण चक्रे खण्डद्वयं रयात् ॥ १५६ ॥ वञ्चयन्पञ्चवक्रस्य वक्रमन्यो महाबलः । प्रौढपृष्ठं समारूढो गौरीकृतगुणोऽभवत् ॥ १५७ ॥ सह सिंहेन संग्रामं कुर्वन्कोऽपि महाभटः । मध्यं पस्पर्श तस्यैव संकल्पान्निजसुभ्रवः ॥ १५८ ॥ कलया कलयामास मध्ये वध्यं हरिं परः। मुट्या तथा यथाग्रावनिष्पन्न इव सोऽभवत् ॥ १५९ ॥ चपेटापाटनक्रूर दूरं शूरः परो हरिम् । चण्डदोर्दण्डघातेन चूर्णिताक्षमलूलुठत् ॥ १६० ॥ नृसिंहेषु तथा सिंहसंघातपरिघातिषु । शङ्के स्वसिंहरक्षायै कैलासं शैलजा ययौ ॥ १६१ ॥ तदाभवबलाभोगभयभङ्गुरचेतसाम् । नश्यतां सह सारङ्गैर्मृगेन्द्राणां मृगेन्द्रता ॥ १६२॥ आश्चर्य तत्र शार्दूलविक्रीडितमहो मैहत् । सेनाभिर्यदिदं बाणस्रग्धराभिरधः कृतम् ॥ १६३ ॥ चन्द्रपातालचण्डीषु बीजं निक्षिप्य रक्षितम् ।
मृगकोलमृगेन्द्राणां धात्रा तत्र क्षयक्षणे ॥ १६४ ॥ १. 'द्वेषां' ग. २. 'अभवत्' क.
Aho! Shrutgyanam.