________________
२६
काव्यमाला। अनृतं यदीयमहसामहःपतिप्रतिमत्वमेष तनुते जनो जडः । सति यत्र शत्रुधरणीभृतामहो परिवर्धते तिमिरहारि दुर्यशः ॥ १०० ॥ कृतवर्षणो विपुलकीर्तिवारिणाद्भुततेजसा जनितविधुदुद्गमः । परवाहिनीषु मुखपद्मखण्डनैर्यदसिर्नवाब्द इव हंसनाशकृत् ॥ १०१ ॥ दिवि तत्र दैवतपतेरपि त्रपां सहसा स्वरूपमहसा प्रतन्वति । नृपतिस्ततो विततविक्रमोदधिर्धरणी मैरुण्वदभिधोऽभ्यधारयत् ॥ १०२ ॥ गुरुकुम्भिकुम्भयुगलस्तनी बैलत्तरवारिवेणिरुरुवाजिलोचना । प्रमदाय कामकलिकेलिभिर्बभावमृतेति यस्य पृतनेव वल्लभा ॥ १०३ ॥ यदरातिभूरमणभूरिदुर्यशोविसरेण वारिधरौरहारिणा । अभितो भृते निखिलरोदसीतले विरराज कीटमणिवन्नभोमणिः ॥ १०४ ॥ पतता ध्रुवं त्रिजगतीनितम्बिनीनयनेन यन्महसि दुःसहावधौ । अमुना व्यमोचि यमुनापदेशतस्तपनेन कजलमलीमसं पयः ॥ १०५ ॥ निजमुन्नतैर्मतिकलङ्कशङ्कया पथिपाति रत्नमपि नाददे जनैः । अजनि ध्रुवं रजनिषु प्रभाभरैः प्रहतासतीगति तदेव यद्भुवि ।। १०६ ॥ तरलत्वनीलिमनृशंसतागुणैः कृतविग्रहो यदसिना सहोरगः। अभजत्पराजयपदेषु शृङ्खलाग्रहरूढभीरिव निगूढपादताम् ॥ १०७ ॥ प्रथमं व्यधत्त वशगां जगत्रयीमथ विस्तृताम्बरमयालयाश्रयाम् । प्रथितप्रयाणमिव यद्यशोऽग्रहीदपि दुर्ग्रहं सपदि योगिनां मनः ॥१०८ ॥ दिवि कान्तकान्तिभिरनङ्गताशुचं मदनस्य तत्र हरति त्रपावतः । क्षितिपः परीक्षिदिति विद्विषविपव्ययकेलिकेसरिकिशोरकोऽभवत् ॥१०९।। अतिरागिणी गुरुसमृद्धिवर्धितप्रबलप्रतापशिखिहेतिसाक्षिकम् । नृपमण्डलीमिव सुविग्रहोऽग्रहीत्सुयशां विलोलनयनां करेण यः ॥११०॥ यदसिन्नत रुधिरासवं रणे परिपीय भिन्नकरिकुम्भमण्डलात् । स्फुटदन्तपतिरिव लग्नमौक्तिकैः सविकासहास इव कीर्तिकान्तिभिः।।१११॥ प्रतिपक्षपक्षघनकक्षमण्डले नवरोषपावककणं परिक्षिपन् । भुवि यः प्रतापदहनं तथातनोच्छुशुभे स्फुलिङ्ग इव पावको यथा ॥११२॥ १. 'महसो महः' ग. २. 'अरुण्वत्' ग. ३. 'चलत् क. ४. 'वारि' क.
Aho! Shrutgyanam