________________
१आदिपर्व-३सर्गः]
बालभारतम् ।
क गतासि तन्वि सहसेत्युदीर्णवाग्दशदिग्वलत्तरलकातरेक्षणः। अनिरीक्ष्य तामथ स तापविह्वलः प्रलपन्हहेति भुवि मूर्छितोऽपतत् ॥७॥ नृपति तथाविधमथावलोक्य सा वियतोऽवतीर्य मदनैकवीर्यभूः । गदति स गत्वरतदीयजीवितस्थिरतापरीक्षितसुधागुणं वचः ॥ ८८॥ तपनात्मजास्मि तपतीत्यहं जगन्नुतकीर्तिरिन्दुकुलसंभवो भवान् । उचितो विवाहविधिरत्र किं तु मे पितृवश्यतैव बत याति विघ्नताम्।।८९॥ इतिवागियं वियदगादिलापतिः स तु मूर्छितप्रमुदितातिमूर्छितः । तपतापतप्तजलवृष्टिहृष्टिमत्पविपातकातरतरूपमामधात् ॥ ९ ॥ इह चानुपत्य सचिवश्वमूवृतः शिशिरक्रियाभिरुदतिष्ठिपन्नृपम् । वचसा च तस्य मततत्कथस्य स व्यसनी समारभत भानुसेवनम् ॥ ९१ ॥ स गुरुं वसिष्ठमनुचिन्त्य चेतसा विततोर्ध्वबाहुकृतसिद्धितोरणः । इह पञ्च सप्त च दिनान्युपोषितस्तपतीकृते तपनसेवनं व्यधात् ।। ९२ ॥ तदवेत्य दिव्यदृगरुन्धतीपतिः स्वयमभ्युपेत्य तपनं येयाच च । अयमाशयोऽजनि ममाप्यदो वदन्स ददौ च संवरणभूभृते सुताम् ॥९३॥ प्रथमानमानसविकासयोरथ क्षितिकान्तकान्तिपतिकन्ययोस्तयोः । मदनव्यथाविपदि मजतोरभूदुभयोमिथो गुरुगिरा करग्रहः ॥ ९४ ॥ स च पञ्च सप्त च समाः समं तया विललास वासवविलासभूमिषु । स्वपुरीमवृष्टिगुणकष्टितां विशन्विदधेऽथ तत्क्षणसुभिक्षभासुराम् ॥ ९५ ॥ गुरुहारनिर्झरविलासभासुरा स्तनशैलकेलिपरकामकुञ्जरा । धृतगौरवेव तपती प्रियाथ सा विततान तस्य जगतीसपत्नताम् ॥ ९६ ॥ प्रभुरप्रभोर्भव मम प्रभूचिता त्वयि मूर्तिरित्यरिजनः कृपालुना। वननव्यकारितपुरीजनार्थनैः श्रियमापि येन गिरिकूटकुट्टिमः ॥ ९७ ॥ हरिगर्भविश्वहरिगर्भविश्वतत्क्रमतो विभाव्य जगतामनन्तताम् । मुदितं जगद्धवलनैकतानताव्यसनातिपूरणरसेन यद्यशः ॥९८॥ द्युपतेः पुरा गुणकृतार्थितश्रुतेर्नयनानि तत्र सफलानि तन्वति । अपुषत्कुरुक्षितिपतिर्भृशं वशामवनीं विनीतवनितामिवाज्ञया ॥ ९९ ॥ १. 'चलत् क. २. 'ननाथ' ग. ३. परिग्रहः' क. ४. 'गौरवैव' ग. ५. 'आप' ख,
Aho! Shrutgyanam. ..