________________
काव्यमाला ।
रुधिरापगाभिरपवाह्यते स्म तद्विषतां यदान्तरमहो महो महत् । अधुनापि तज्ज्वलति वाडवानलच्छलधारिवारिनिधिवारिमध्यगम् ॥ ७४ ॥ यदनीकिनीहरिखुरस्फुरद्रनःपटलस्थलेऽर्णवजले जलेशयः । यदरिप्रियाश्रुझरसंभवे स्वपन्नुदधौ दधौ किमयमाञ्जनं महः ॥ ७९ ॥ अभिपूज्य शंभुमपि भालदृयिषात्स्वतनूलवेन नियतं तनूनपात् । कृतयत्प्रतापविजयोद्यमो दिशां वदने दिशत्ययश एव धूम्यया ॥ ७६ ॥ किममुष्य दानमुपरिष्ठमत्पदोऽप्यधुनापि शंभुरजिनास्थिमण्डनः । इति निर्विवेकमवधार्य यं कुले किल हृद्दधाति कलुषं सुधाकरः ॥ ७७ ॥ रिपुमेदिनीदयितदुर्यशोमषीकलुषीकृते गगनपट्टिकातले । व्यधित प्रशस्तिमिव तारकाक्षरां निजकीर्तिकैतवखटीरसेन यः ॥ ७८ ॥ शतमस्य साग्रमवनीशतक्रतोस्तनया व्यराजिषत वल्लभात्रयात् ।। अथ तेषु संवरणसंज्ञया बभौ गुणसंकुलः कुलधरो धराधिपः ॥ ७९ ॥ सुकृतानि तानि सततं वितन्वता भुवनेषु तेन तदुपार्जितं यशः।। निजपूर्वजस्य रजनीपतेर्यथाद्भुतलाञ्छनव्यतिकरोऽपि लोपितः ॥ ८० ॥ अवचः पथानि चरितानि तन्वतो भुवि यस्य साहसविकासशालिनः । अपि शास्त्रकोटिमनसां मनीषिणां मुखमौनमेव भवतु स्तवक्रिया ॥ ८१ ॥ मृगयामगच्छदरिमुक्तसंयुगः स महाप्रहारकुतुकी कदाचन । असमश्रमव्यसुतरंगमः कमप्यचलं क्रमैरधिरुरोह सिंहवत् ॥ ८२ ॥ अयमिन्दुसुन्दरमुखी पयोनवार्णववर्णनीयदशनालिदीधितिम् । अमृतायिताधरदलामलोकयत्रिजगद्रहस्यमिव कन्यकामिह ॥ ८३ ॥ अथ बाणयष्टिरिव चाम्पकी तनुश्रुतिधूतनूतनसुवर्णवर्णका । मुखदत्तपद्ममहिमेयमाहिता मदनेन तस्य हृदि रूपमत्सरात् ॥ ८४ ।।
अभिसृत्य भूमिविभुरभ्यधत्त तामथ मन्मथव्यथितमानसो रसात् । तनयासि कस्य चरसीह तन्वि किं कुरु मां हृदि स्मरवशं स्मराश्रिते ॥८॥ इति रूपचाटुवचनेषु भूपतेस्त्रपिता स्थिता क्षणमवागवाङ्मुखी । तडिदुत्प्लवेन रभसा ददर्श तं गगनं जगाम मृगवामदृक्ततः ॥ ८६ ॥ . १. 'उपरिस्थ' ख. २. 'धौत' ख. ३. 'मुखपद्मदत्त' क.
Aho! Shrutgyanam