________________
१आदिपर्व-३सर्गः] बालभारतम् ।
२३ मणिक्लप्तकुट्टिममरीचिवीचिकासतताभिरुद्धकुलटामलिम्लुचम् । विफलीकृतेन्दुरविकर्म निर्ममे भुवि येन हास्तिनपुरं पुरं महत् ॥ ६१ ॥ बहुहेतिदुर्धरसमिद्विकस्वरे ज्वलति प्रतापदहने जुहाव यः । पशुवद्विपक्षनिकरं यशोजलैरथ पूर्तवद्गगनमण्डलं व्यधात् ।। ६२ ॥ नवकीर्तिदत्तसततामृतप्लवः परिलूनदानववितानविप्लवः । अधुनापि केन कुसुमैन पूज्यते यदसिधृतः शिरसि वेणिमूर्तिभिः ॥६३॥ यदुरुप्रतापपरितापताडितं निभृतं निभाल्य भुवनं सुखैकभूः । खरधामनामनिजधामगर्भतो निरगाबहिर्नहि पुरातनः पुमान् ॥ ६४ ॥ परदेशसंचलितदुःस्थयाचकप्रकरार्थमेव यदिलातले जनैः । अभिभूषिता विविधभूषणाशनैर्वनशाखिनोऽदधत कल्पशाखिताम् ॥६५॥ दिवि तत्र भानुजयिनाङ्गतेजसा प्रविलुम्पति ग्रुपतिलोचनस्रजम् । प्रतिपक्षपार्थिवचमूविकुञ्चनस्तदभूद्विकुश्चन इति क्षमापतिः ॥ ६६ ॥ मृदुमन्दमञ्जुलपदप्रपञ्चया सुविलासया दयितया सुदेवया । अतिशुद्धपक्षयुगया रराज यः पृथिवी विभुर्वरटयेव पल्वलः ॥ ६७ ॥ असिरेव यस्य दलितेभकुम्भतः प्रहतिस्फुलिङ्गयुतमौक्तिकत्रजात् । परिकुट्टिताहितमहामहोयशःकणसंचयानिव दिवि व्यकासयत् ॥ १८ ॥ न कथं गुणैर्मदधिकोऽयमेति भूरखिलाप्यमुष्य सुकृतैरियं दिवि । इति विस्मयं रजसि यद्दलोद्गते युगपत्तनाकृत भृशं त्रिशङ्कुभूः ॥ ६९ ॥ गिरिशस्य गर्भभवनेऽपि तेन यः प्रबलः प्रतापदहनः प्रदीपितः । उदितं तदनशिखया जगत्प्रभोध्रुवमस्य भालमभिभिद्य दृमिषात् ॥ ७० ॥ जगुरीगम्बरकदम्बडम्बरस्फुटरोम यद्वपुरपारमीशितुः । स्फटिकावनीध्रवृषशेषयामिनीपतिजाह्नवीजलति तत्र यद्यशः ॥ ७१ ॥ स्वपरप्रभेदरहितेन दुयं दधतो दयामयहृदैव देहिनः । उचितेन दण्डरचनेन मोचिता महतोऽपि येन परलोककष्टतः ॥ ७२ ॥ अनिमेषलोचनकरालताशुचं सुरसुध्रुवां हरति तत्र हारिणि । अजमीढ इत्यथ भुजे भुवो भरं बिभरांबभूव भुवनकभास्करः ॥ ७३ ॥ १. 'विकुञ्चनादभवत्' ख.
Aho! Shrutgyanam