________________
२२
काव्यमाला।
पिदधे हरिः करयुगेण मत्सरी श्रवणौ गुणस्तुतिषु यस्य सश्रियः । अपि गर्भविश्वनिनदं निशम्य तन्मयमेव नूनमयमाप कृष्णताम् ॥ ४९॥ चलयञ्चमूचयरजोभिरुद्धतैषुधुनीजलेऽप्यतुलपङ्कसंकटे । न बभूव शंभुविभुमूर्ध्नि शाश्वतः किमु पङ्कजप्रकरपूजनोत्सवः ॥ ५० ॥ सं पुराणपूरुषपुराणवेदिनां वदनादिदं स्वपनवद्विदञ्जगत् । स्वपनेऽप्यनेकसुकृतैककृत्कृती न बभार जागरणनिद्रयोर्भिदाम् ॥ ११ ॥ अथ तत्र पत्रलतिकां मरुद्वधूकुचयोलिखत्यसुरराजमार्जिताम् । नृपतिः सुहोत्र इति गोत्रभृद्जाश्रयिणीरिवाकृत दिशो यशोभरैः ॥ १२ ॥ समदीपि यः क्षितिधवः सुवर्णया प्रिययाद्भुतद्रुतसुवर्णवर्णया । विकसत्कुशेशयमुखश्रियान्वहं विभया गभस्तिरिव लोकशोकभित् ॥ ५३॥ अपि सिन्धुरोचितगुणोऽपि संत्यजन्कमलामपि स्फुटरथाङ्गवर्जितः । परिमुक्ततार्थ्यगमनोऽपि दूरतो युधि कृष्ण एव यदरिजनोऽभवत् ॥ १४ ॥ रिपुयोषिदाननविलोचनोच्छृसत्पवनाम्बुपूरमखधूमतेजसाम् ।। पटलेन मेधैकरणीदलेन यः सततं सुभिक्षमकरोत्किल क्षितौ ॥ ५५ ॥ परितर्पयन्मखभुजो मखननैर्यशसैव राहुमपि विप्रतारयन् । विततान यः किल विभावरीविभोनिनपूर्वजस्य परिरक्षणोद्यमम् ॥ ५६ ॥ अमुमजनालविवरालिसूक्ष्मतागलितेन नाभिपदतः प्रसारिणा । क्रतुपूरुषस्य परमात्मतेजसा ध्रुवमद्भुताद्भुतविधि विधिय॑धात् ॥ १७ ॥ यदधीतवान्गुणकदम्बमेष तद्गणनेऽपि खेदमवहहहस्पतिः । प्रविभिद्य तद्गणनमालिकामणीक्षिपति स्म तारकनिभान्नभोङ्गणे ॥ १८ ॥ अथ तत्र कल्पतरुपल्लवैः करं रमयत्यहो समगुणानुरागिभिः । अवनिर्दधेऽवनिधवेन हस्तिना नवमेन विष्टपधुरीणहस्तिनाम् ॥ ५९॥ घनपत्रवल्लरिविशेषकाननप्रभया समाविषयाग्रिमश्रिया । प्रिययान्वहं करगृहीतया यशोधरया रराज धरया च यः प्रभुः ॥ १० ॥
१. क-पुस्तकेऽस्य श्लोकस्याग्रिमस्य च पौर्वापर्यमस्ति. २. 'विकसत्कुशेशयमुखश्रियान्वहम् । विभया गभस्तिरिव लोकशोकभित्प्रिययाद्भुतद्रुतसुवर्णवर्णया ॥' ग. ३. 'मेघकरणाद्वलेन' ग.
Aho! Shrutgyanam