________________
१ आदिपर्व - ३ सर्गः ]
नवखण्डमण्डनधरावराङ्गनामुकुटीकृताङ्घ्रिनखरत्नदीधितिः । विभबभूव किल चक्रवर्तितामपवर्तितारिनिकरो रणेषु यः ॥ ३७ ॥ कुलपूर्वजेन्दुरुचिहारिणं रविं भुवि यो व्यधान्निजनिदेशकारिणम् । व्यसनात्कृशैरैरसहस्रमूर्तिभिः किरणैर्वृतं स्फुरितचक्र कैतवात् ॥ ३८ ॥ लसता तदीययशसा जनार्दनं विशदं विमुच्य मतिविभ्रमेण यः । तरुणीकटाक्षचयमेचकच्छविर्भुवि चक्रवान्सपदि शिश्रिये श्रिया ॥ ३९ ॥ युधि यस्य चक्रवलयेन पातिता रिपवः क्रुधेव दिवि भानुमण्डलम् । निजकण्ठकर्तनपरायुधभ्रमाद्विभिदुर्जवेन परलोकगामिनः ॥ ४० ॥ यशसापि यस्य सुरशैलनाभिभृत्तटिनीचयारनिंचिताम्बुधिप्रधि | भुजगाधिनाथभुजगामि विभ्रता क्षितिचक्रमाप्यत महत्सु चक्रिता ॥ ४१ ॥ नितरामनङ्गपदवीविरागतो रचितावतार इव भूतले स्मरः । विततान यः कमपि तं पराक्रमं हृदि येन सोऽपि चकितस्त्रिलोचनः ॥ ४२ ॥ अधिरोपितां भ्रुवमवेक्ष्य सुभ्रुवः सरुषो यदीयनतकार्मुकभ्रमात् । भयकर्तिताङ्गुलिदलाः स्म विद्विषोऽभिनयन्ति तां प्रति वशंवदात्मताम् ४३ अखिलैक वेदितुरनन्तयद्गुणग्रहणोद्यतस्य दैयितामनोमुदे । वियदेव शब्दगुणमूलमीशितुः शितितानुमेयमजनिष्ट कॅण्ठगम् ॥ ४४ ॥ विबुधाङ्गनाधरसुधानिपानयोरथ तत्र तन्वति विचारचातुरीम् । नृपतिर्भुमन्युरिति भूरिमन्युभूर्भ्रमरीचकार करकैरवे भुवम् ॥ ४६ ॥ स्मयमानमारविभवां विभातिनीं तनुसंपदा विशदकान्तिधारया | उदुवाह संगरसकौतुकाशयो दयितां जयामसिलतां च यो मुदा ॥ ४६ ॥ यदसिद्विषां कवलयन्महो महद्वियदङ्गणे कवलमाद्यमक्षिपत् । तमहो महोष्णमहिमच्छविच्छलादधुनापि लालयति कालवायसः ॥ ४७ ॥ पतितं कुतोऽपि विजनेऽपि कानने शनकैरुदस्य शयिताहिकौतुकात् । अवगम्य नीलमणिदाम यद्भुवि द्रुतमाहितुण्डिकजनेन तत्यजे ॥ ४८ ॥
बालभारतम् ।
२१
१. 'कृतांह्नि' क. २. 'कर' क. ३. 'गिरिजा' ख. ४. 'कण्ठकम्' ख. ५. 'विभाविनीं' क . ६. 'तदहो' क.
Aho ! Shrutgyanam