________________
२०
काव्यमाला ।
अथ पार्थिवाय स तयार्थितो ददौ वरमिन्दुधामधवलाशयो मुनिः । शुचिधर्मकर्मघटना कटाक्षितं क्षितिपत्वमस्खलितमस्तु तत्कुले ॥ २९ ॥ इति तद्वरे सति वरेण्यलक्षणं क्षणदाहृदीशमिव वासवी हरित् । समयेऽद्भुतं सुतमसूत सूतिकागृहदी पदैन्यर्जनकं शकुन्तला ॥ २६ ॥ स चकार कण्ववनभूविभूषणः करिणः क्रमेण गमने कलागुरून् । इति सिंहपोत मनोद्यमाद्ददौ मुदमेष तेषु गुरुदक्षिणामिव ॥ २७ ॥ अथ तेन रोचितनृपोचितव्रतस्थितिना सुतेन सह राजपत्तनम् । श्रयति स्म कण्वमुनिना कथंचन प्रहिता स्वशिष्यसहिता शकुन्तला ॥२८॥ नृपमेत्य सत्यवददेष मद्भवस्तव नन्दनः कुलवनैकचन्दनः ।
प्रिय मालिनीपुलिनसाक्षि तद्वचः प्रतिपन्नमद्य नरनाथ पालय ॥ २९ ॥ अथ स स्मरन्नपि नृपोऽभ्यधान्मम स्मृतिमेषि न त्वमपि तत्कुतः सुतः । इति तद्वचःप्रचितकोपकम्पिनी गिरमाकुलाम कलयच्छकुन्तला ॥ ३० ॥ परिषज्जनस्य नयनाय नन्दनं ननु भूपरूपमहसैनमभ्यधाः । अनृतं वदन्निह तदस्य हस्यसे श्रवसा यतः सहचरोऽक्षसंचयः ॥ ३१ ॥ यदि वा दिवाकरसमोऽप्यपह्नुतस्तनयस्त्वया मयि चिराद्विरागिणा । तदियं गताहममुमङ्कवर्तिनं रचयेति दीनवदना रुरोद सा ॥ ३२ ॥ अवनीश सूनुजननी पतिव्रता दयिता किमद्य कुतुकेन खेद्यते । इति दिव्यगीःश्रुतिचमत्कृतः प्रियां सदमानयन्नयन कौमुदीं नृपः ॥ ३३ ॥ भरतप्रभुत्वकरलक्ष्यलक्षणं क्षितिपः सुतं तु भरताभिधं व्यधात् । समये शैमी समभिषिच्य तं पुनर्विपिनावनीमगमदङ्गनासखः ॥ ३४ ॥ इलिनान्ववायनलिनाहिमद्युतिः प्रतिपक्षकक्षशमनाशुशुक्षणिः । तुलितत्रिविक्रमपराक्रमस्ततो भरतोऽभवद्भरतवर्ष भूषणम् ॥ ३५ ॥ स्फुरदङ्गचङ्गिमजुषा दधानया परितः परं प्रतिभयोद्गमं हृदि । प्रमदं मनो दयितया सुनन्दया कलयांचकार नयलीलयापि यः ॥ ३६ ॥
१. 'जननं' क. २. 'भूमिभूषणः ' क. ३. 'दमनोद्यनो' क. ४. 'वशी' क. ५. 'इति सोऽन्ववाय' ख. ६. ‘भूषणः ' ख.
Aho ! Shrutgyanam