________________
१ आदिपर्व - ३ सर्गः ]
बालभारतम् ।
अथ तस्य पार्थिवमुनेस्तपोवने विललास सालसगतिः कृशाङ्गिका । जयिना स्मितेन कुसुमायुधायुधावलिजन्मजङ्गमलतेव पुष्पिता ॥ १३ ॥
( युग्मम् )
१९
शतमन्युनुन्नपवमानडम्बराद्गलदम्बरां नतिमतीं विलज्जया । जलदोज्झितामिव कलावतः कलामवलोक्य तामभवदुन्मना मुनिः ॥ १४ ॥ इयमर्थिता स्मरवशेन वाक्सुधारसवर्षिणा तदनु पार्थिवर्षिणा । अधिकं समाशतमसेवि चांशुमान्ददृशे कदापि च दिनान्तपाटलः ॥ १५ ॥ अथ तत्र सांध्यविधिसोद्यमेऽद्य ते प्रिय को विशेष इति सा प्रहासिनी । स्मृतभूरिकृत्यपरिलोपकोपने चकितात्रसत्तडिदिवाशु मेनका ॥ १६ ॥ अवलोकितापि न भयेन गर्भतो गलिता तयाहमिह मालिनीतटे । विधृता शकुन्तततिभिः शकुन्तलेत्यभिधाय कण्वमुनिनास्मि लालिता ॥ १७ ॥ इति वेद्मि कण्ववचसेति तद्वचः स निशय्य संमदवशंवदोऽवदत् । नृपनन्दिनि त्वमुचितासि मे वशस्तव चास्मि तद्भव मुदा मदीश्वरी ॥१८॥ भविता भुवो वरयिता भवत्सुतः सुतरामिति क्षितिपतिः प्रमोद्य ताम् । FE देवगायन विवाहलीलया सपदि व्युवाह मुदितः शकुन्तलाम् ॥ १९ ॥ अथ तां चुचुम्ब मदमन्दघूर्णनो रसतोऽर्धमीलितविलोचनां नृपः । मधुरं रसन्नलियुवा नवाजिनीमिव किंचिदुन्मिषतपद्मकुङमलाम् ॥ २० ॥ मलयानिलो विलुलितालिकुन्तलां नवमाधवीमिव शनैः शकुन्तलाम् । रसभासुरां सुरभिशीतलस्तदा मृदुवेपमानतनुमालिलिङ्ग सः ॥ २१ ॥ नति स्म सज्जनगौरवावं पृथुतन्नितम्बभुवि कामवर्हिणः । इह तेन तच्चरणचौरचिह्नतां प्रियदत्तपाणिजपदानि तेनिरे ॥ २२ ॥ अथ स त्वदानयनहेतवे द्रुतं प्रहिणोमि वाहनमिति प्रजल्प्यताम् । नृपतिर्जगाम पुरि तन्मनः पुनर्विधृतं तयैव तदधीश्वरी हि सा ॥ २३ ॥ मुनिरागतो नृपतिरागतोषिणीमवलोक्य तामथ समन्मथश्रियम् । परया शोचितसमागमां विदन्नजनिष्ट हृष्टहृदयो दयोदधिः || २४ ॥
१. 'समाः' ख-ग. २. 'विधुता' ख ग ३ पालिता' क. ४. गान्धर्वविवाहेन. 'चारु' ख.ग.
ཏ.
Aho ! Shrutgyanam