________________
१८
काव्यमाला।
तृतीयः सर्गः। सुकृतस्य खड्गमिव तारतीव्रताव्रतधारमाश्रयत कृष्णयोगिनम् । यदि वो दिवानिशपराभवोद्यतभ्रमदन्तरारिभयभङ्गुरं मनः ॥ १ ॥ नृपसिंहसंहतिषु संगरक्रियाविमुखीषु विक्रमविलासकौतुकी । स कदाचिदाचितशरासनो वनं मृगराजराजिमृगयेच्छया ययौ ॥ २ ॥ अवनीधवः स मृगमित्रलोचनाजनलोचनप्रियतनुर्धनुर्धरः । उचितं यदेणरिपुवारदारणोद्यमदारुणोऽजनि तदारुणो रुषा ॥ ३ ॥ प्रहरन्हरीनथ चमूपृथक्चरः श्रितमालिनीसरिदुपान्तकाननः । स ददर्श कण्वमुनिभर्तुराश्रमे रुचिधाम कामपि कुमारिकामयम् ॥ ४ ॥ सुमगुच्छचक्रयुगसंनिभस्तनी मृगपोतनीलनलिनाभलोचना । नवपल्लवाम्बुजसदृक्करक्रमा गजराजहंससमयानविभ्रमा ॥ ५ ॥ वनचारिणीयमिह वाहिनीतटे वनदेवता किमुत वारिदेवता । इति तद्विलोकनकुतूहलोल्लसन्नयनद्वयश्विरमचिन्तयन्नृपः ॥ ६ ॥ (युग्मम्) अथ भूपमप्रतिमरूपभासुरं रभसान्निरूप्य विकसद्विलोचना । अपि गोचरीकृतरतिप्रियेण सा मनसा रसाधिकमुवाह विस्मयम् ॥ ७ ॥ परिकल्पितातिथिजनोचितक्रियामथ तामुवाच विनिविश्य पार्थिवः । क्क मृगाक्षि कण्वमुनिपुंगवोऽधुना नमनाय तस्य तरलं हि मन्मनः ॥ ८ ॥ अथ तद्विलोकरसभावजत्रपावशकर्णकोटरविशद्विलोचना । विपिनं गतः फलकृते समेष्यति त्वरितं मुनिर्मम पितेति साभ्यधात्॥९॥ अपि शैशवायेथितमन्मथः स किं सविता तवेत्युदितवाचि पौरवे । निजगाद सा दशनदीप्तिमण्डलच्छलसेवकीकृतसुधाचयं वचः ॥ १० ॥ कुशिकात्मजस्य नृपतेस्तपस्यतस्तपसोऽन्तरायकृतये पुरा हरिः । विषमास्त्रवीरपरमास्त्रमप्सरोजनमौलिमण्डनमयुत मेनकाम् ॥ ११ ॥ नलिनानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः । इति रोषणैरिव मधुव्रतैधुतं दधती मुखं सुरभिचारुमारुतम् ॥ १२ ॥ .. १. 'अवाप' ग. २. 'वशित' क. ३ ‘स पिता' क.
Aho! Shrutgyanam