________________
१आदिपर्व-२सर्गः]
बालभारतम् ।
चन्द्रक्षीरसमुद्ररुद्रशिखरिव्यालेन्द्रमन्दाकिनी
मन्दारद्रुमहारतारकमुखाः सर्वेऽप्यखर्वत्विषः । वीरश्रीनिलयस्य यस्य यशसि त्रैलोक्यकुक्षिभरौ
नेक्ष्यन्ते यदवश्यमस्य तदमी निर्माणकर्माणवः ॥ ७९ ॥ श्यामश्रीके किमपि विपुले स्वर्गदण्डप्रणाली
पालीलीलाभृति विधुसुधाकूपरुंडीरसिक्ते । स्फारा ताराततिरतितरामम्बरक्षेत्रदेशे
दृश्या यस्य प्रतिगुणयशोवल्लिबीजावलीव ॥ ८० ॥ प्रेमातिरेकरसमग्नहृदोऽप्युपांशु___ लीलावतीललितवेणिविलोकनेन । आसन्रणोग्रयदसिस्मरणाद्विलीन
__ कामाः परे कृपणमीलितकातराक्षाः ॥ ८१ ॥ फूत्कारैः फणिपुंगवं फणिगणो गङ्गां तरङ्गखनै
धर्मी मन्द्ररवैरवैति तमपि स्वःकुम्भिनं जम्भजित् । अस्माभिर्बत बुध्यतां कथमयं स्वामीति तारा व्यधु
श्चन्द्रे चिह्नमिवाञ्जनैस्त्रिभुवनभ्रान्तासु यत्कीर्तिषु ॥ ८२ ॥ लीलावापीसरसिजवने भद्रकुम्भीन्द्रकुम्भ__ क्रोडे कान्तावदनशशिनि द्वारवीरासिदण्डे । खेलं खेलं स्वयमिह मुहुर्यद्वितीर्णा स्थिरत्वं
लोलापि श्रीरभजत गृहे मार्गणानां गणस्य ॥ ८३ ॥ वीरोत्तंसस्य यस्याभिनवशशिसितैकातपत्रं प्रताप
क्ष्मापालं सुप्रतिष्ठं नयनशिखिमिषाद्भालपट्टे भवस्य । नागेन्द्रोऽद्यापि नीराजयति मणियुतैर्यद्गुणग्रामगीत
प्रीतः कम्प्रैः शिरोभिः स्फुरति सुरतटिन्यम्बुकम्बुप्रणादे ॥ ८४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये
वीराङ्के आदिपर्वणि पूरुप्रमुखाष्टादशराजवर्णनो नाम द्वितीयः सर्गः ।
१. 'रुन्नीर' ख, 'रुत्कीर' क.
Aho! Shrutgyanam