________________
काव्यमाला।
ततो रिपुक्ष्मापचमूनिकारं चकार दुष्कन्त इति क्षितीशः । चतुर्मिराभादनुजैर्भुजैर्वा चतुर्भुजः श्रीपरिरम्भणे यः ॥ ७१॥ खयं कनिष्ठाङ्गुलिकोटिदत्तप्रसूनपत्रार्पितपूर्वशोभम् । पाणिद्वयं मूर्ध्नि निधाय चक्रे स्तवक्रियां यस्य विरोधिवर्गः ॥ ७२ ॥
चित्रेषु वर्गेषु पुरः स्फुरत्सु यत्कार्मुके संगररङ्गभाजि ।
द्विषद्धटापाटननाटकैक टेयमभ्रूरनटन्नटीव ॥ ७३ ॥ पातालयात्रासु गतस्य वाचामगोचरं किंचन यस्य रूपम् । पातुं प्रमोदाय भुजंगमानामगामि कामं नयनेषु कर्णैः ॥ ७४ ॥ विश्वत्रयीधवलनव्यसनेन यस्य
दामोदरोदरमपि प्रविवेश कीर्तिः । तस्या बभौ पदमदः कथमन्यथास्मि
न्नाभीपथे सितकुशेशयकैतवेन ॥ ७९ ॥ चक्रे कल्पतरुनिरुञ्छनविधि चेलाञ्चलैश्चञ्चलै
स्तेने चामरकर्म चामरगवी लीलोल्लसद्वालधिः। उद्गीतस्य यदीयदानयशसो रेजे च नीराजना
प्रायः प्रीतिविकम्पितासु दिविषचूलासु चिन्तामणिः ॥७६ ॥ निःशेषप्रतिपन्थिपार्थिवचमूपाथोधिमन्थोद्धरः
साम्राज्यश्रियमाप्य यः समतनोच्चक्रं क्रतूनां तथा । मन्ये येन तदुत्थधूमलहरीसंपातसंपादिता
मद्यापि ऋतुपूरुषो न वपुषि श्यामां रूंचं मुञ्चति ॥ ७७ ॥ उदन्वानुन्मीलद्वेहुलहरिमजप्रवहणः , परिभ्रश्यचूलाशिखरविषमान्ताः क्षितिभृतः । अटव्यः संघट्टज्वलिततरवो यद्दलभरैविलोले भूगोले श्रित इति विपक्षैः सपदि यः॥७८ ॥
. १. 'दुष्यन्त' ग. २. 'विधाय' ग. ३. 'नटोपमभू' ग. ४. 'रुचि' क. ५. 'बहलहरि' ग. ६. 'परिभ्राम्यत्' ख.
Aho! Shrutgyanam