________________
१ आदिपर्व -२ सर्गः ]
बालभारतम् ।
सरस्वतीशो मतिनारभूपस्ततोऽभवत्पादनखेषु यस्य । अपाति बिम्बेन नृपैर्दशाशाक्षितीशताखेलनपल्वलेषु ॥ ५९ ॥ विकम्पतेऽसौ युधि पृष्ठमेतद्विरोधिनां दर्शयतीति येन । असौ च चापे च निरादरेण विजिग्यिरे भूमिभुजो भ्रुवैव ॥ ६० ॥ गुणैः स्थितं 'यं हृदि कामुकस्य न का मुहुः कामवशालिलिङ्ग । नकाधिकं येद्गुणगानगर्भमुपांशु चित्तेशमुखं चुचुम्ब ॥ ६१ ॥ स्वयं कृतानामपि कीर्तनानां संख्यां स नाबुध्यत बुद्धसर्वः । जगत्पवित्रीकरणोल्वणानां यस्मिन्गुणानामिव पद्मयोनिः ॥ ६२ ॥ नृपस्त्रसुर्नाम कलिन्दकन्यापतिस्ततो भूषयति स्म भूमिम् । त्रैलोक्यदीपत्विषि यत्प्रतापे पतंगवद्भाति पतन्पतंगः ॥ ६३ ॥ विधाय पूजां रणमण्डलस्य क्षतेभकुम्भच्युतरत्नपुष्पैः । द्विषां ज्वलन्तीरगिल प्रतापप्रदीपिका यत्करवालयोगी ॥ ६४ ॥ वामाविनोदावसरेऽपि विश्वजयज्वलन्मोहजयोज्ज्वलस्य । पपात यस्योपरि पुष्पवृष्टिरिवाभितो मन्मथवाणवृष्टिः ॥ ६९ ॥ इयद्वियस्य पदं वदन्ति शिरोरुहं यैस्य च तस्य ताभ्याम् । आदायि यद्दानपयोनिदानयशोम्बुजाङ्केऽलिमरालकेलिः ॥ ६६ ॥ रथन्तरीजानिरथो पृथुश्रीरिलाधिपोऽभूदलिनाभिधानः । महाहवे यत्प्रतिघाग्निधूमकृपाणसङ्गो द्विषतां दिवेऽभूत् ॥ ६७ ॥ केनापि भन्नं शिशुना पिनाकं वास्ते गुणश्रीरपि रोहितस्य । संभाव्यते शार्ङ्गपूतमेव केनोपमेयं तदमुष्य चापम् ॥ ६८ ॥ स्निग्धा युवानस्तरुणीषु ताभिर्यदात्मकत्वेन रहः स्मृतास्ते । इति त्रिलोकीमिथुनानि तुल्यप्रीत्यैव किं तुल्यरतानि नासन् ॥ ६९ ॥ भिन्नोऽपि सत्कर्मरसेन सप्तद्वीपावनीभारभरेण तप्तः । खेदापनोदाय पपावमुह्यन्मना वधूनांमधरामृतोमः ॥ ७० ॥
११
१. 'यद्धृदि' ग. २. 'यदण' ख. ३. 'शिशु' ख, 'त्वसु' ग. ४. विष्णोः. ५. शि. वस्य व्योमकेशत्वात्. ६. 'अपूर्वमेव' ग. ७. 'अमृताधरोर्मी : ग.
Aho ! Shrutgyanam