________________
काव्यमाला।
भासाहया वल्लभया ततोऽस्माद्देवातिथि विबुरुद्वभासे । स्पर्धा दधाना इव येन युद्धे द्विषोऽपि देवातिथयो बभूवुः ॥ ४७ ॥ ययौ गलश्यामलता किमद्य तवेति देव्याभिहितो महेशः । व्यलोकत खं फणिराजमौलिमणौ मुंदा यद्यशसि प्रकीर्णे ॥ ४८ ॥ दिक्पालपूजाविधिभिस्त्वमेव मया प्रयाणावसरेऽचितोऽसि । तत्कि निहंसीति गिरा निरासि परेण युद्धापदि यत्प्रकोपः ॥ ४९ ॥ रजोजलाचिकणतारकाणू-क्ष्माब्धित्रितेजोम्बरवायुमूर्तिः । संख्याय सर्वज्ञविभुर्गुणालीं यस्यास्तसंख्यां जगदेऽष्टमूर्तिः ॥ ५० ॥ देवापतिः श्रीरुच इत्यथासीत्तदीयसिंहासनशैलसिंहः । विदारयन्वैरिगजब यो यशांसि मुक्ताविशदानि तेने ॥ ११ ॥ निजाश्रुनीरैः स्नपिता द्विषद्भिः प्रदीपिता मौलिमणीमृजाभिः । दशापि यत्पादनखाः प्रेतेनुर्दिशां दशानामपि दर्पणत्वम् ॥ १२॥ आविश्य नारीरमरीगणेन नेत्रानिमेषानुमितेन दृष्टः। पातालबालाभिरनायि रूपश्रुत्यैव यो लोचनगोचरत्वम् ॥ ५३ ॥ यस्य प्रतापस्तपनो नवीनः सर्वत्रलब्धाभ्युदयोऽस्तहीनः । यो यः क्षितीशोऽत्यजदातपत्रं तापं तनोति स्म न तस्य तस्य ॥ ५४॥ ज्वालापतिरिवनेऽथ शौर्यज्वालालिमज्वालयदृक्षराजः । वृतः सितैर्यस्य यशोभिरिन्दुरवाप दुग्धोदधिवाससौख्यम् ॥ ५५ ॥ तटस्थकान्ताकुचदर्शनेन प्रधावितान्कुञ्जरकुम्भबुद्ध्या । वने विनास्त्रैर्भुजलीलयैव जिगाय सिंहानपि यद्विपक्षः ॥ १६ ॥ सामस्त्यभावाद्धृतं वधूत्वं त्रिलोचनः शोचति चेतसि स्वम् । स्त्रीत्वं गृहीत्वोज्झितमेव विश्वरूपस्तु यदूपनिरूपणेन ॥ १७ ॥ यद्भूतले सच्चरितोदयानामविश्रुतादृष्टरुजां प्रजानाम् । अमीलयद्वन्धुसुखोक्तिभाजां निद्रेव मृत्युनयनानि काले ॥ १८ ॥ १. 'व्यलोकयत्' क. २. 'यदा' ख. ३. 'क्षमाम्भोधितेजो' ख, 'क्षमाब्धितेजो' ग. ४. 'यस्यास्ति संख्यान्' ख, 'यस्यास्त संख्यान्' ग. ५. 'वितेनुः' ग. ६. 'रूप' ग. ७. 'दधतं' क. ८. 'त्रिलोचनं' क. ९. 'अर्जितमेव' क.
Aho! Shrutgyanam