________________
१आदिपर्व-२सर्गः] बालभारतम् । ततः सुयज्ञाधिपतिः पतंगमहा महाभौममहीधवोऽभूत् । अस्त्रैरसिञ्चन्त मुहुः स्वदेहं यद्वैरिणस्खासगतेषु तप्ताः ॥ ३५ ॥ निपीय पीयूषरुचिं रुचैव कृतस्थितिः कल्पशतानि यावत् । जगत्रयेऽप्यस्खलितं चलन्ती यदीयकीर्तिर्विरराज सिद्धा ॥ ३६ ॥ विशिष्यमाणप्रमदं यदङ्गप्रवेशशोभासुभगीकृताङ्गैः। दिक्पालवध्वो दयितै रसेन परं परीरम्भमरं भजन्ति ॥ ३७ ॥ जानन्विभावं भवनाटकेऽस्मिन्मायामयं सर्वमखर्वबोधः । रसैरभिन्नोऽभिनिनाय तोषरोषादिभावान्समयोचितान्यः ॥ ३८ ॥ जज्ञेऽथ राजायुतयाजिसंज्ञोऽसूयापतिर्य स्मृतिभूनिमाल्य । अमुं रतिर्मा च निरीक्ष्य मा भूदियं विषण्णाभवदित्यनङ्गः ॥ ३९ ॥ सदाप्यहस्यन्त सुरप्रियाभिः स्त्रियः प्रियालोकनविघ्ननिद्राः । स्वप्ने तु यं प्राप्य मुदा तदाभिस्ताः प्रत्यहस्यन्त मुहुर्विलक्षाः ॥ ४०॥ घनारिनारीनयनाश्रुनीरैर्यशोलता यस्य विभातु युक्तम् । प्रतापवद्विवलितो यदेतैर्जगच्चमत्कारकरं तदेव ॥ ४१ ॥ फलन्ति जन्मान्तर एव देवाः सेवाकृतामित्यतुलं कलङ्कम् । भेत्तुं भवन्ति स्म दिशामधीशाः सद्यः फलस्मेरितसेवको यः ॥ ४२ ॥ करेणुकाजानिरिलाप्रबोधमक्रोधनो नाम ततस्ततान । भुजंगमीगीतिषु यस्य दानं निशम्य मुक्तो बलिनापि दर्पः ॥ ४३ ॥ नभोङ्गणे यस्य यशःप्रतापौ विलेसतुर्भावरगोलकाभ्याम् । पातालगान्निहितोद्धताभ्यामिवान्वहं चन्द्ररविच्छलाभ्याम् ॥ ४४ ॥ निरन्तरं त्र्यम्बकपादपूजापुण्यात्मनां संयति निर्जितानाम् । न येन जढे परमार्थवृत्तिः स्वसेवकानां द्विषतामपि श्रीः ॥ ४५ ॥ अहो महीभारमहीयसा यः क्लेशेन रीणोऽह्नि निशि प्रहृष्टः । आत्मानमालोकत योगनिद्रास्वप्नेष्वसंभाव्यपदप्रतिष्ठम् ॥ ४६ ॥ १. 'महीधरो' क. २. 'ऽपि निनाय रोषतोषात्' क. ३. 'तपस्यतिः' ख, 'भासां पतिः' ग. ४. 'विखिन्ना' ग. ५. 'प्रियं' ख. ६. 'फलापूरित' ख. ७. निहतोद्गताभ्यां ख.
Aho! Shrutgyanam