________________
काव्यमाला।
बभार भूमीमथ सार्वभौमो नृपः सुनन्दाहृदयाधिनाथः । चकर्ष जीवां युधि संमुखानां शरासनानामिव वैरिणां यः ॥ २३ ॥ अपि प्रभिन्ना रुधिरैररीणां तदङ्गनारपि जातसेका । स्वसैन्यभारेण च दुर्धरापि धरा करे येन सुखेन दधे ॥ २४ ॥ विद्याधरीणां निवहो वयस्याः स्मरातुराः स्मेरयितुं सयत्नः । छलादहार्यस्य शुभैकवृत्तेर्न रूपमप्यस्य शशाक धर्तुम् ॥ २५॥ अजानता यस्य तनुत्विषैव छायां वियत्येव भृशं विशीर्णाम् । इतस्ततश्चालयतार्कधाम्नि च्छत्रं मुहुश्छत्रधरेण खिन्नम् ॥ २६ ॥ ततो जयत्सेन इति क्षितीशो जिगाय शत्रून्सुषुवाधिनाथः । अलचि धीरैर्भुवि सर्पिणीयं चिरं नरेन्द्रैरपि नो यदाज्ञा ॥ २७ ॥ ध्रुवेव भङ्गानसिनेव कम्पाञ्शरासनेनेव नतीरतीव । प्रपाठिता यस्य युधि द्विषन्तो मुखे तृणं तु स्वधियैव चक्रुः ॥ २८ ॥ खेरूलिकाखेलनपुष्पलावस्नानादिलीलाः सुभगस्य यस्य । ऐच्छन्न किं स्वस्वपदेषु कामचलाः स्थलारामजलाधिदेव्यः ॥ २९ ॥ यद्रूपशेषां तनुमारचय्य श्रीविश्वरूपो रमते श्रियं किम् । यदद्भुताकारधरश्च विश्वत्रयीजयी चास्य सुतः स्मरोऽभूत् ॥ ३० ॥ मर्यादयोा च विभुर्द्विभार्यो रोचीननामा नृपतिस्ततोऽभूत् । विकम्प्य यस्यासिररीभमूर्ध्नि पपात कान्ताकुचशङ्कयेव ॥ ३१ ॥ रणे मणिव्याप्तकिरीटकुम्भतटोर्ध्वदोर्दण्डकृतप्रतिष्ठाम् । पटीपताकां भ्रमयन्प्रपेदे प्रासादलीलां विजयश्रियो यः ॥ ३२॥ यस्य प्रतापं सृजता हरेण करेण सस्वेदममार्जि मालम् । लग्नेन तद्रव्यलवेन तेन तेनेऽत्र नेत्रं ज्वलनाभिधानम् ॥ ३३ ॥ कार्येच्छया यद्रिपुदुर्यशोयत्प्रतापयत्कीर्तिवितानगानैः । ध्वान्तोच्छूयं वा दिवसोदयं वा ज्योत्स्नाचयं वा रचयन्तु लोकाः॥३४॥ १. 'कर्तुम्' क. २. 'अथावनीशो जयसेननामा रिपून्सुपर्वादयितो जिगाय' इति क. पुस्तकोपरि पाठान्तरम्. ३. 'वीरैः' क. ४. 'भुवेव' ग. ५. 'खरूचिका' इति हरविजयस्थः (२७।४) पाठः. 'खरूचिका धनुष्मतामभ्यासोपयोग्यानि शरव्यानि' इति तटीका. ६. 'प्राचीन' क,.'ऽर्वाचीन' ख. ७. 'च' क.
Aho! Shrutgyanam