________________
४१२
काव्यमाला ।
आश्रमवासपर्व ।
अथास्मिन्वसुधां पाति धर्मेणाप्यचिकित्सितम् । अभूदर्थिक प्राप्तिरेव दुःखं जगज्जुषाम् ॥ १ ॥ तदाघमर्षणे तस्य नामन्येव श्रुते स्मृते । श्रुतिस्मृतिपरीवारा व्यवहाराय जज्ञिरे ॥ २ ॥ नित्यं नत्वाम्बिकासूनुं निर्दिदेशाधिकारिणः । तस्य राजार्हभोगार्थं राजा निर्व्याजभेक्तिधीः ॥ ३ ॥ राज्ञा स पुनरज्ञाततपस्वीव प्रियासखः । इलाशायी फलाहारी ब्रह्मचारी सदा स्थितः ॥ ४ ॥ इति पाति क्षितिं राज्ञि नाजानन्सुखतत्पराः । कालेन कृत्यमानानि जीवितव्यान्यपि प्रजाः ॥ ५ ॥ अब्दे पञ्चदशे भीमोऽघुष्यत्कौरवदुर्नयान् । तच्छ्रुत्वा धृतराष्ट्रोऽभूज्जित्वा कोपं वनस्पृहः ॥ ६ ॥ सोऽभ्यधाद्भूपतिं वत्स याचे किंचिद्ददासि चेत् । इति प्रह्णे नृपेऽयाचद्वस्तुं र्द्वन्द्वोचितां महीम् ॥ ७ ॥ इति श्रुत्वा मिश्राक्षः पादलग्नो जगौ नृपः । मा तात मुञ्च मामेकं त्रस्तो मृग इवार्भकम् ॥ ८ ॥ इति दीनं वदत्युर्वीवासवे वासवीसुतः । एत्याभ्यधाद्भवाम्भोधिसारपीयूषवद्वचः ॥ ९ ॥ जानन्मुह्यसि किं राजन्कृत्येषु जयिनी त्वरा । पश्य देहप्रदीपस्य तैलमायुः प्रलीयते ॥ १० ॥ आसन्न मृत्युदावाग्नेर्धर्मे देहतरोः फलम् । गृह्णतः कुरुवृद्धस्य विघ्नीभवसि मूढ किम् ॥ ११ ॥ पूर्यते देहगेहस्य यावत्पुण्यमयक्रयः । उत्तमैरुत्तमस्थानयोग्यं तावत्तदयते ॥ १२ ॥
१. 'नुकारिणः' क. २. 'भक्त' ख ग ३. 'चपि' ख ५. 'तत्' क . ६. 'इन्दो' क. ७. व्यासः, ८. 'प्रहीयते' ख.
१०. 'दर्प्यते' ग.
४. 'दुर्जयान्' ख.
९. 'भव' क ख.
1
Aho ! Shrutgyanam