________________
.
१४ अश्वमेधपर्व - १ सर्गः ]
बालभारतम् ।
शप्तस्तत्पितृभिः कोपः स्वोपयोगि पयो लिहन् । अदभ्रविभ्रमो भूमौ भवान्बभ्रु भवेदिति ॥ ८८ ॥ यदि यौधिष्ठिरे यज्ञे करिष्यसि विमाननाम् । तदा विमुच्यसे सत्यं दत्तस्तैरित्यनुग्रहः ॥ ८९ ॥ अयं स कोपनकुलः कुर्वन्निह विमाननाम् । राज्ञो यज्ञोद्भवां मानमूर्छा हवा व्यमुञ्चत ॥ ९० ॥ बोरित्यद्भुतकथाश्रवणप्रवणाशयाः । भूदेवनरदेवाद्याः सर्वे विस्मयमाश्रयन् ॥ ९१ ॥ इति यतिशैतहर्षस्फायमानप्रहर्षः प्रततहुतिविधानः प्रौढसत्पात्रदानः । दलितदुरितभारः सोऽभवत्पुण्यसारः
कृंतकुगति निषेधस्तस्य राज्ञोऽश्वमेधः ॥ ९२ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोर हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती | तद्विद्याहृदि बालभारतमहाकाव्येऽश्वमेधोभवं
पर्व प्रीतिपदं चतुर्दशमिदं संप्राप संपूर्णताम् ॥ ९३ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये चतुर्दशमाश्वमेधिकं पर्व समाप्तम् ।
४५१
१. 'श्वोप' ख. २. 'मान्यः' ख. ३. 'मुक्त्वा व्यमुच्यत' ख. ४. 'कृत' ख. ५. 'कृतिजगति' ख.
Aho ! Shrutgyanam