________________
४५०
काव्यमाला।
इत्थं मनोरथैस्तेषां न शान्तास्य क्षुधा तदा । ते सर्वे स्वस्वभागान्नं तदा तस्मै ददुर्मुदा ॥ ७६ ॥ तेषां सुकृतिनामन्नस्तृप्तोऽयमतिथिगौ । धर्मः सत्त्वमहत्त्वाद्वः प्रीतोऽहं सिद्धिमाप्नुत ॥ ७७ ॥ इत्युक्त्वान्तर्हिते धर्मे दुष्कर्मेन्धनवह्नयः । जग्मुस्तिग्मांशुमानैस्ते विमानर्देहिनो दिवम् ॥ ७८ ॥ जगाम तामहं सक्तुगन्धसंबन्धतो धराम् । विप्रोच्छिष्टपयः स्पृष्टं पार्श्व हैममभून्मम ॥ ७९ ॥ द्वितीयपार्थहेमत्वचिन्तया कुत्र कुत्र न । द्विजभोज्यभुवि भ्रान्तः संप्राप्तोऽत्रापि संप्रति ।। ८० ॥ क्वापि प्रापि पुनस्ताहक्प्रीत्यै नायं प्रभाकणः। सक्तुप्रस्थस्य साम्यं तत्कि क्रामतु क्रतुः शतम् ।। ८१ ।। इत्युदित्वा गते तत्र चित्रकान्तावदर्शनम् । भूकान्ते संभ्रमभ्रान्ते वाचं व्यासः समासदत् ॥ ८२ ॥ शुद्धो भावः क्वचिल्लक्ष्मीः क्वचिन्नोभावपि क्वचित् । सर्वेभ्यः सर्वशुद्धोऽयं क्रतुभ्योऽभ्यधिकः क्रतुः ॥ ८३ ॥ सुरासुरमखेभ्योऽपि शुद्धे यौधिष्ठिरे क्रतौ। नकुलोऽस्मिन्ननार्यत्वमनार्यः कार्यतो जगौ ॥ ८४ ॥ बोधं क्रोधः पुरा श्राद्धे जमदग्निमुनेः शमम् । पिठरस्थं पयः पित्र्यं श्वा भूत्वा जिह्वयालिहत् ॥ ८५ ॥ धर्मः शुनामयं नाम दोषोऽयमिह रक्षितुः । इत्यसौ न शशापैनं सारमेयममेयहक् ॥ ८६ ॥ अशक्तस्तेन पापोऽयं कम्पमापोग्रपापकृत् ।
दुरन्तस्यापि पापस्य मुनिशापो हि शोधनः ॥ ८७ ॥ १. 'धर्मसिद्धिर्म' ख. २. 'किमयं क्रमतु क्रमम' ख. ३. 'नोभावुभावपि' ख. ४. 'समम्' ख.
Aho! Shrutgyanam