________________
१४ अश्वमेधपर्व - १ सर्गः ]
बालभारतम् ।
अथाम्बिकेयं गान्धारीं विदुरं संजयं तदा । पार्थिवोऽपूजयत्पुण्यप्रत्यक्षा इव देवताः ॥ ६३ ॥ तदा च प्राचरतत्र सत्रधात्रीतले बिलात् । नकुलः स्वर्णवर्णैकपार्श्वः पार्श्वे द्विजन्मनाम् ॥ ६४ ॥ रूपविस्मापितान्भूपमुख्यान्विस्मापयन्पुनः । वाचमव्याकुलोsवोचन्नकुलो नूकुलोचिताम् ॥ ६५ ॥ प्रीतेन्द्रादिसुरः प्रीतश्रीव्यासादिद्विजो मखः ।
व्यनक्तु सक्कुप्रस्थस्य व तुलां कलयाप्ययम् ॥ ६६ ॥ वित्तवृष्टिमयो दृष्टिमदायैव महोत्सवः । अल्पः फले यथानल्पकायच्छायो वटद्रुमः ॥ ६७ ॥ स व्याचष्ट द्विजैः पृष्टः सतुप्रस्थकथामथ । पुण्याङ्करः कुरुक्षेत्रे द्विजराजः पुराजनि ॥ ६८ ॥ शिलोञ्छवृत्तेः कार्येन कृशस्तस्य भवोऽप्यभूत् । किं चित्रं शत्रवोऽपि स्युः सतां कष्टेन कष्टिनः ॥ ६९ ॥ दुर्भिक्षे महति क्षीणशिले क्षोणितलेऽखिले । भ्रान्त्वा क्षोणितलं सत्कुप्रस्थं प्राप कदापि सः ॥ ७० ॥ विधिमावश्यकं कृत्वा वैश्वदेवादिकं वशी । भोक्तुं स्थितोऽर्थिनं प्रेक्ष्य प्रियामुत्पुलकोऽवदत् ॥ ७१ ॥ प्रिये पश्य प्रसन्नोऽद्य मम धर्मो व्रतादिभिः । अर्थेषु सत्सु कालेऽत्र दर्शयन्प्राप्तमर्थिनम् ॥ ७२ ॥ प्रशंसन्नपि सत्पात्रं दाने कालविलम्बकृत् । तदर्तिक्षणसत्तायाः पापं लुम्पति कैर्व्रतैः ॥ ७३ ॥ . अथ हर्षाश्रुपूर्णाक्षिपुटः पुलकमुद्वहन् । क्षुधितः स्वस्वभागानं क्षुधितार्थिने ददौ ॥ ७४ ॥ दध्युस्तस्य द्विजेन्द्रस्य प्रिया पुत्रः स्नुषाप्यथ ।
अस्मै देयं स्वभागान्नमन्नेनानेन तृप्यतु ॥ ७९ ॥
१. 'अर्थिनं' ख. २. 'दद्मः' ख.
५७
Aho ! Shrutgyanam
४४९