________________
१४ अश्वमेधपर्व - १ सर्गः ]
बालभारतम् ।
जगत्रयजयोन्मुद्रे रुद्रेणाप्यजिते युधि । शब्दोऽभूद्दिवि हाहेति तिमिन्नेऽर्जुने तदा ॥ ३७ ॥ पतितं पितरं भानुमिवालोक्य विमूर्च्छितः । सूर्यकान्तिशिलोत्थोग्निरिव चित्राङ्गदाङ्गजः ॥ ३८ ॥ तत्र चित्राङ्गदागत्य दृष्ट्वा सुतहतं पतिम् । विललापतमां तापतमांस्येकत्र बिभ्रती ॥ ३९ ॥ हा चित्तेश हहा कान्त हहहा शान्तमानसः । किं धाम्नि मम जायायाः समायातस्य तेऽभवत् ॥ ४० ॥ चिरागतोऽप्यनाप्य स्वामिन्दास्योचितं जनम् । आतिथ्येन तनूजस्य सुखितः स्वपिषीति किम् ॥ ४१ ॥ इत्युचैः प्रलपन्ती सा रोदयन्ती खगानपि । सपत्नीमुरगीं गाढमालिङ्गय क्ष्मातलेऽलुठत् ॥ ४२ ॥ अथ संज्ञां ममासाद्य स्वं निन्दन्विलपन्मुहुः । मृत्यौ दधे धियं दुःखवाहनो बभ्रुवाहनः ॥ ४३ ॥ सत्या हि सुतया ध्यातस्तदायातस्तलाद्भुवः । भोगिलोकशिरोरत्नमिव संजीवनो मणिः ॥ ४४ ॥ यदैव सै तया दत्तो हृदये हृदयेशितुः । तदैव दैवमाक्रम्य तस्य स्वात्मानमानयत् ॥ ४९ ॥ हर्षाश्रुधौतशोकाश्रुतापदुःखितचक्षुषम् । सुप्तोत्थित इवापश्यदथ पार्थः परिच्छदम् ॥ ४६ ॥ अथोचे वाक्सुधाकूपी तमुलूपी कृताञ्जलिः । नाथ धन्योऽसि धन्यानामेव पुत्रात्पराजयः ॥ ४७ ॥ किंतु जघ्ने यदा भीष्मः शप्तोऽसि वसुभिस्तदा । वध्योऽस्त्वसौ सुतस्येति कोऽन्यथा त्वज्जयी भवेत् ॥ ४८ ॥ मत्पिता मत्कृपाद्रेण ते भक्त्याभ्यर्थितस्तदा । त्वत्कालरजनिव्योममणि प्राहुरमुं मणिम् ॥ ४९ ॥
१. 'लाप्य क. २. 'नभो' क. ३. 'सुतया' क.
Aho ! Shrutgyanam
४४७