________________
१२ शान्तिपर्व - १ सर्गः ]
बालभारतम् ।
१२ ॥
तदीदृग्लोभचण्डाल चण्डालिङ्गनदूषितः । अस्पृश्योऽहमतो यामि जीवितुं विजने वने ॥ ते सव्यसाचिसाचिव्यमाजः पान्तु धरां शराः । वैरस्य हेतुर्द्वधापि न योग्या मादृशामसौ || १३ || अकिंचिच्चिन्तकः शान्तकण्डूतिर्मृगघट्टनैः । वत्स्यामि पुनरेकाकी शीर्णपत्राशनो वने ॥ १४ ॥ इत्युक्तिभाजि भूजानौ गिरं भेजे धनंजयः । स कोपविनयाटोपकटुकोमलपेशलम् ॥ १९ ॥ अलब्धे रागिणो लोका अहो लब्धे विरागिणः । हेमन्ते तापमीहन्ते हन्त ग्रीष्मे हिमं मुहुः ॥ १६ ॥ ऐच्छद्भवान्वने राज्यमिच्छन्राज्येऽधुना वनम् । उन्मत्त इव लोकेश लोकेनाप्युपहस्यैते ॥ १७ ॥ विधिरिन्द्रे दरिद्रे च दिदेश कृपया पृथक् । धर्ममध्वरदानैश्च तपोध्यानैश्च तारणम् ॥ १८ ॥
तद्दुःस्थेन वनस्थेन नेशा यद्याहतं तपः । तदिदानीं स्थितः स्वाम्यं मनः कुरु मखादिषु ॥ १९ ॥ अथ सद्यः समुत्तप्तदुग्धदुर्धरया गिरा । कोपेन कलुषीकृत्य विनयं पावनिर्जगौ ॥ २० ॥ वेधसा पञ्चमीच धिगकिंचनकृद्भवान् । मध्याङ्गुलीवाङ्गुलीनां मध्येऽस्माकं मुधा गुरुः ॥ २१ ॥ नास्माकं कोऽप्युपायोऽस्ति विश्ववीर जितामपि । त्वत्कनीयस्त्वनामैकं व्यसनं येन नीयते ॥ २२ ॥
द्वेष्टी (ष्टृ णामपि दुष्टानां रक्षणं यस्य लक्षणम् । ततं चेत्प्रियं तुभ्यं ता देवत्रतादयः || २३ ||
४२९
१. 'कौशलम्' ख. २. 'स्यसे' ख. ३. 'दत्तै' ख. ४. 'नेश' ख. ५. 'तेन तीर्थ' क. ६. 'द्विष्टाना' ख. ७. 'राजंस्तत्किं हतारयः ' क.
५४
Aho ! Shrutgyanam