SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४२४ काव्यमाला। शान्तिपर्व । प्रथमः सर्गः। ओंकारो यः सदाबैकवर्णोऽपीशस्त्रयीमयः। . व्यास निश्वसितान्वेदान्पायाच्यासमुनिः स नः ॥ १ ॥ अथ त्रैलोक्यकल्याणकन्दमन्दाकिनीतटे । तत्राजग्मुः शेमारामनीरदा नारदादयः ॥ २॥ जलाञ्जलिविरामेऽपि नेत्राञ्जलिगलज्जलः । शौचान्तेऽपि सुहृच्छोकादकिंचित्करणस्थितः ॥ ३ ॥ धर्मभूः किमपि ध्यायन्विन्ध्यस्मारीव वारणः। . ऊचे देवर्षिणा कर्णपेयपीयूषवर्षिणा ॥ ४ ॥ (युग्मम्) दिष्यासि कुशली राजन्कि विच्छाय इवेक्ष्यसे । हताहितसमूहोऽपि दग्धेन्धन इवानलः ॥ ५॥ जित्वाप्यरीन्रणास्कन्दमदसंक्रन्दनोपमान् ।। लब्धेतिकष्टादिष्टेऽपि राज्ये राजन्विषीद मा ॥६॥ अथ निःश्वस्य विश्वस्य विभुरूचे हहा हताः । यदर्थमर्थ्यते राज्यं राज्यार्थ तेऽपि बान्धवाः ॥ ७ ॥ यत्रोत्पत्तिस्तदेव खं महसे दहतः कुलम् । उद्भान्तं दुर्यशोभिर्मे धूमैरिव हविर्भुजः ॥ ८ ॥ विषस्य सोदरैव श्रीः क्रिययानु ततोऽधिका । समग्रकुलनाशाय यद्भोगैकस्पृहापि हा ॥ ९ ॥ स्मरन्मातुर्गिरं योऽस्मान्वध्यकोटिगतान्मुहुः। ररक्ष मित्रदाक्षिण्यारब्धयुद्धोऽपि बान्धवान् ॥ १० ॥ जन्ने कृतरस्माभिः सोऽपि विश्वत्रयीजयी । सहोदरो महीमज्जत्स्यन्दनव्यसनस्थितः ॥ ११ ॥ (युग्मम्) १. 'यदाप्येकः कर्णो' क. २. 'व्याप' ख. ३. 'विश्वासिभाचेदान्व्त्यन्' क. ४. 'न्यश्यन्व्यासमुनिर्मुदे ख. ५. 'शरा' क. ६. 'क्षमे क. ७. 'मन्द' क. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy