________________
११स्त्रीपर्व-सर्गः) बालभारतम् ।
४२१ यदि वेनि तपांसि तान्यहं सुरबालाभिरलामि यैर्मवान् । द्विगुणानि विधाय तानि तत्प्रिय ताभ्योऽपि भवन्तमानये ॥ १२६ ॥ भवदाननदर्शने सदा प्रिय यन्निनिमिषत्वमासदम् । अनिमेषविलोचनासु मन्द्रमतः किं तदगामि पश्य माम् ॥ १२७ ॥ अपि साप्तपदीनमुच्यते महतां संगतमङ्ग शाश्वतम् । तदहं सहसे यमुज्झिता किमु षण्मासविलासवल्लभा ॥ १२८ ॥ इति तारविलापिनीमिमामियमाकृष्य विराटमागता । अनुरोदयतेऽपि रोदसी न सुदेष्णा करुणारवेन किम् ॥ १२९ ॥ त्रिदिवेऽप्सरसो भुवि प्रियाः पुलकस्वेदभृतो भजन्त्यमुम् । द्रुपदं स्वरभेदवेपथुप्रलयस्तम्भविवर्णताश्रिताः ॥ १३० ॥ अपकृष्य कृपी विमूर्छितां स्फुटधूमच्छलधार्मिदुर्यशः । गुरुसंस्करणं द्विजोत्तमा विरचय्य शुधुनी व्रजन्त्यमी ॥ १३१ ॥ रसना ननु मद्रभूपतेर्वृषतेजो वधपापलुप्तये ।। पलभुक्पतगक्षुधानले सरलेह खमहो जुहोत्यसौ ॥ १३२ ॥ दयितस्य शिरोऽतिदूरतो द्रुतमानीय नियोज्य वर्मणि । प्रिय भूमिरसाविहातपो गृहमेहीत्यभिवक्ति मत्सुता ॥ १३३ ॥ अवलोकय पञ्च सुभ्रुवो विगतेाः सममेव केशव । शयनस्थितमाप्तपञ्चतं बत भूरिश्रवसं श्रयन्त्यमूः ।। १३४ ॥ अयमीशितुरध्वरोद्धुरो हेह कण्ठग्रहकृन्मृगीदृशाम् । द्विजराजिषु गोसहस्रदः प्रतिपक्षान्तकरः करः पुरः ॥ १३५ ॥ इति भर्तृभुजं प्रयातितं वयशःशाखिशिखावदैन्द्रिणा । समुदस्य भुवोऽङ्गुलीदलेष्वभिचुम्ब्य प्रलयन्त्यमूर्मुहुः ॥ १३६ ॥ स्वभुजौ नटयन्नकारयन्मम पुत्रं भुवि दुष्कृतानि यः । वृषसेनसुषेणयोरियं जननी शोचति तं हतं परैः ॥ १३७ ॥
१. 'देष्णो दातरि दुर्गमे' इति हैमात्सुदुर्गमा. २. 'श्रुभिः' क. ३. 'विघूर्णिता' ख. ४. 'त्यपि भक्तिमत्सुता' ख. ५. 'हठकण्ठ' स्व.
Aho! Shrutgyanam