________________
४२०
काव्यमाला ।
इति युद्धधरावलोकिनी पतितं वीक्ष्य सुतं सुयोधनम् । : सुबलस्य सुता विमूच्छिता पुनरुद्बुध्य जगाद केशवम् ॥ ११४ ॥ यदवादि मया रणोद्यमे न सुतः सैष जयेति भाषया । तदिमां ध्रुवमाययौ दशां सह बन्धुखजनैः सुयोधनः ॥ ११५ ॥ विविधैरपि भाषणैर्मुहुर्विदिताक्रन्दभरा हृदीशितुः । बत भानुमती हगम्बुभिः स्वयमेन्तस्त्रपनं करोत्यसौ ॥ ११६ ॥ वपुषो हरते रजोञ्चलैर्विकृषत्यङ्गुलिभिस्तृणं मुखात् । गमयत्य सृगश्रुभिः स्नुषानिवहोऽयं दयितेषु मामकः ॥ ११७ ॥ इयमच्युत मौलिमीशितुः स्वयमङ्के विनिवेश्य बालिका । स्वजने त्वयि दत्तदीदृग्विलपन्ती वदतीदमुत्तरा ॥ ११८ ॥ स्वसुरेष सुतः प्रियः सहक्तव रूपे विनये न ये जये । किमु सर्वग पश्यति त्वयि च्छलिभिर्भूरिभिरेकको हतः ॥ ११९ ॥ अभिचुम्ब्य हृदीशितुर्मुखं पुनरालोक्य निजाश्रुभिः प्लुतम् । स्मृतसात्विकवारिविभ्रमा विधुरेयं रुदती वदत्यमुम् ॥ १२० ॥ प्रिय विप्रियवानहं (?) त्वया न हि पृष्टापि युधि द्रुतं यता । किमु विप्रियकारिणीमिव प्रलपन्तीमपि मां न भाषसे ॥ १२१ ॥ यदि दत्तमुरः सुरस्त्रियः प्रिय तन्मां चलितारुणेक्षणः ।
४
कटु रे रटसीह किं वदेत्यपि रोषादियतापि मे मुदः ॥ १२२ ॥ प्रिय तादृशगौर पौरुषः स्फुटमेकोऽपि रणैककर्कशः । मदभाग्यसहायतां विना व सहस्रैरपि हन्यसे द्विषाम् ॥ १२३ ॥ सततं मयि साम तन्वतः प्रिय मन्ये तव विस्मृता रुषः । धृतकोपलवस्य तेऽद्य ते पुरतः स्थातुमपीश्वराः परे ॥ १२४ ॥ तनयस्य तवैव वैरतः कति तातेन निजघ्निरे परे । नयनोत्सव तैर्घनैरपि प्रिय नैको ववले पुनर्भवान् ॥ १२५ ॥
१. 'मन्तः स्रपनं' क-ख. २. 'विप्रियवान्भवानहं' क. ३. 'द्वितया' क. ४. 'मो
, मुदः' ख ५. 'सामतत्त्वत:' ख. ६. 'तत्कृते' ख.
·
Aho ! Shrutgyanam