________________
११स्त्रीपर्व-१सर्गः] बालभारतम् ।
४१९ परिरम्भणचुम्बनादिकं विजितं केलिदुरोदरे मया । वितराशुतरां तदद्य मे प्रिय निद्रास्यनृणः सुखीव किम् ॥ १०१ ॥ समरश्रमभित्तये रजोरुधिरक्लिन्नशरीर एव मे । परितः परिरम्भणोत्सर्वं न पुरेवाद्य करोषि किं प्रिय ॥ १०२ ॥ अपराधपरस्य ते नतिर्न मयामानि ततोऽसि मानभाक् । अधुना पदयोः पतामि ते द्रुतमुत्तिष्ठ कृपां कुरु प्रभो ॥ १०३ ॥ अणुसंचलनेऽपि जागृयामिति वादिन्रुदती प्रियाद्य माम् । नवजागरणारुणेक्षणः कथमाकृष्य कचैन चुम्बसि ॥ १०४ ॥ मदुरस्तव मानिनोऽपि यः सतताभ्यासवशोऽस्पृशद्रसात् । प्रिय मामपि वीक्ष्य पार्श्वगामधुना सोऽप्यलसः कथं करः ॥ १०५ ॥ उपधाय कुचौ मम स्थितो दिनदानश्रमवान्निशासु यः। हृदयेश स ते करः क्षितौ रणखिन्नः किमशेत संप्रति ॥ १०६ ॥ न्यपतन्मुहुरेत्य मन्मुखे कविगोष्ठीरसिनोऽपि यत्तव । किममीलि तदप्यदस्त्वया नयनं नाथ मदागमेऽधुना ॥ १०७ ॥ मयि यन्न चटुप्रलापवान्न च जागर्षि रवैरैपीदृशैः । कुतुकात्प्रिय तत्त्वया धृता छलनिद्रव वचांसि यच्छ मे ॥ १०८ ॥ इति शोकमयोक्तिविह्वला स्रवदस्राविलगण्डमण्डलाः । गुरुमोहवशा वदन्त्यमूर्दयितान्प्राणवियोगिनोऽङ्गनाः ॥ १०९ ॥ उपलक्षयसे न मत्कुचौ किमिमौ कुम्भयुगेषु कुम्भिनाम् । इति काचिदियं प्रलापिनी प्रियपाणि तरसा हृदि न्यधात् ॥ ११० ॥ किमु मत्परिरम्भलोभतस्त्वमुपैतोऽसि पुरोऽतिदूरतः । इति वागियमीशितुः पृथक्पतितं पाणिमुरस्यरोपयत् ॥ १११ ॥ अधिकृत्तमरातयेऽपितं प्रभुणा वेणिधृतं निजं शिरः । इयमुत्पुलका चुचुम्ब च व्यसुतां प्राप च वीरवल्लभाम् ॥ ११२ ॥ शतखण्डितमङ्गमीशितुः सकलं न्यस्य यथाक्रम क्रमात् । परिरभ्य मुदाप मूछितं यदियं प्राप तदेव मृत्युताम् ॥ ११३ ॥ १. 'सुभट' ख. २. 'रमीदृशैः' क. ३. स्त्रितं' क. ४. 'वल्लभा' ख.
Aho! Shrutgyanam