________________
४१८
काव्यमाला |
पललैः कवलीकृतैस्तृषं कलयन्तो नितरां निशाचराः । नखभिन्नशवैौघहमयीं जलधारां परितः पिबन्त्यमी ॥ ८९ ॥ कृतरक्तविलेपनाः प्रियैर्ज नितान्त्रावलिहारवल्लयः । पलभुक्सुदृशोऽत्र रासकैः कटु गायन्ति किरीटिपौरुषम् ॥ ९० ॥ न निरीक्षितुमप्युषाचरैरपि शक्याः सुकृतैकराशयः । व्यसवोऽप्यतिशायिकान्तयः सुखसुप्ता इव भान्ति केऽप्यमी ॥ ९१ ॥ वधूः खलु दिव्यमूर्तिना परिरब्धाप्यमुनास्य विग्रहम् । अतिदिव्यममुं विलेपनाभिपतद्भृङ्गमिषान्कटाक्षयत् ( ? ) ॥ ९२ ॥ परितोऽब्जधियालिपद्धतिर्नृपतेरस्य मुखे व्यसोरपि । अमला मणिकुण्डलांशुभिर्निपतन्ती चरचामरायते ॥ ९३ ॥ विमलातपवारणोदरे पतितो मौक्तिकभूषणः पुमान् । अधिदुग्धपयोधि कुण्डलात्फणिसुप्ताच्युतवद्विभात्ययम् ॥ ९४ ॥ अपरोऽपि भुजाभृतां गणः पलभुग्भिर्हुतमेष मुच्यते । त्वरिताभिपतत्तदङ्गनासु सतीत्वप्रभया भयाकुलैः ॥ ९५ ॥ विविधैरुपलक्षणैः क्षणादुपलक्ष्य प्रमदाजनः प्रियान् । किमु वक्ति कथं विचेष्टते परिमग्नः शुचि पश्य केशव ॥ ९६ ॥ किमु नाथ विरक्तवान्भवान्मयि यन्मामपि वीक्ष्य नाकृषः । करिकुम्भतटान्मृघश्रियः कुचदेशादिव पाणिपल्लवम् ॥ ९७ ॥ अनुकूल मैमाद्य धृष्टतां प्रिय किं दर्शयसेऽधुनापि यत् । असिमुज्झसि नः खपाणितोऽम्बरवेणीमिव साहसश्रियः ॥ ९८ ॥ अपि शत्रुशरक्षतैर्वृतो नखचिद्वैरिव शौर्य संपदः । प्रिय मत परिष्वजस्व मां विधुराहं त्वयि नैव मानिनी ॥ ९९ ॥ नवरागरसाद्विलोक से वधूर्यद्यनिमेषया दृशा ।
मञ्जु
प्रिय मां दयितां ततो न मां किमु दाक्षिण्यवशादपीक्षसे ॥ १०० ॥
१. 'चल' ख. २. 'भूषणांशु' ख. ३. 'कुण्डलफ' क. ४. 'सुसतीत्रभ्रयाप्रया' क. ५. 'मिवाध्व (स्ख) 'क. ६. 'प्रथमां' ख. ७. 'पीक्ष्यसे' ख.
Aho ! Shrutgyanam