SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इति बोधमयीमियं धियं दधती व्यासवितीर्णदिव्यहक् । समलोकत संगराङ्गणं पतितक्षत्रगणं यथा स्थितम् ।। ६४ ॥ धृतराष्ट्रयुधिष्ठिरादयस्तदनु व्यासगिरा रणाङ्गणम् । चलदाकुलवीरकामिनीकुलकल्लोलितशोकमासदन् ॥ १५ ॥ अथ वीक्ष्य पलादसंकुलं स्फुटचिदैर्वृतमङ्गिभिर्मतैः । रुददङ्गनमङ्गनं युधः सुबलक्ष्मापसुता हरिं जगौ ॥ ६६ ॥ मृगयस्व मुकुन्द कुञ्जरैर्धननीलैः कनकोज्वलैभेटैः ।। व्यसुभिर्वसुधा विभात्यसौ तिमिराकौशुसमीकभूरिव ॥ ६७ ॥ तरदास्यकरांहूयो रुचन्निह निम्नाः क्षितयोऽस्रपूरिताः । यमपानकृतेऽजवासितारुणमैरेयनिखातभाण्डवत् ॥ ६८ ॥ विमलातपवारणच्छलादिह राकाचयचन्द्रमण्डलैः । पतितेषु मुखेषु भूभुजां निजमित्रेष्विव मूर्छितं शुचा ॥ ६९ ॥ गलितैः शुशुभेऽत्र कुम्भिनां रदमुक्ताफलकेतनाञ्चलैः । भटनिर्दलिता सुहृयशस्तरुशाखाकुसुमच्छदैरिव ॥ ७० ॥ इह रक्तमये पयोनिधौ शिखिपत्रातपवारणैर्बभे । जलदैरिव पातुमागतैः क्वचिदुत्पातनियोगवृष्टये ॥ ७१ ॥ हतभूपतिवृन्दखण्डिताश्युतकर्तर्यसिचक्रकैतवात् । क्षतकङ्कणवेणिकुण्डलावलिमौज्झन्निह दिग्जयश्रियः ॥ ७२ ॥ त्रुटिताखिलसंधिनि स्थिता कवचे लूनवपुष्टया बभुः। क्रमुकद्रुमवल्करोपिता इव भोज्याय यमेन दोर्भूतः ॥ ७३ ॥ पतितैः कलितासिभिभृशं कनकाभैर्भुजशालिनां भुजैः । नकुलैधुतपन्नगैरिव प्रमदः कालसभासदां ददे ॥ ७४ ॥ यमकिंकरबालकननैनवशिक्षातरणाय सज्जिताः । इह तुम्बफलोच्चया इव क्षतजाब्धौ भटमौलयो बभुः ॥ ७९ ॥ इदमुल्लसितात्तमुच्चकैः स्थितमाभाति शताङ्गमण्डलम् । रथिनस्त्रिदिवालयं गतान्खयमन्वेतुमिवाहतोद्यमम् ॥ ७६ ॥ १. भोज्या यमकेन' ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy