________________
१९ स्त्रीपर्व - १ सर्गः ]
बालभारतम् ।
तनयेन जयाशिषेऽर्थिता भवती या सुकृते जयं जगौ । कुटिलेऽद्य सुते हते नृपं किमु शप्तुं सति धार्मिमीहसे ॥ ११ ॥ सुबलस्य सुता ततोऽवदन्मम ते दुर्नयिनो हताः सुताः । विदधे पुनरानलिः सुयोधनदुःशासनयोरसद्वयम् ॥ १२ ॥ अथ पावनिराह निर्मितं यदकृत्यं जननि क्षमस्व तत् । अपराधपरानकि क्वचित्किमु माता तनुजाञ्जिघांसति ॥ १३ ॥ कृतया सदसि प्रतिज्ञया कुरुभूपस्य मयोरुराहतः । अधरस्तु न मे विलङ्घितो युधि दुःशासनरक्तधारया ॥ १४ ॥ अथ सक्रुधमाह सौबली क्व तपः सूनुरनन्तमत्सरः । समरे मम येन नन्दनोऽगमि नैकोऽपि कुलस्य तन्तुताम् ॥ ५५ ॥ अथ धर्मसुतः कृताञ्जलिः परिकम्पी पुरतः स्थितो जगौ । अयमस्मि सुतान्तकारिणं शप मां मातरुदात्तपातकम् ॥ १६ ॥ मम संहृतबन्धुपद्धतेरसुभिः पापकलङ्कपङ्किलैः । सुकृतावतरेण सेव्यतां तव शापत्रिदशापगोपमः ॥ १७ ॥ इति वाचि नृपे न सौबली किमपि स्माह विनिश्वसन्मुखी । स नमन्कुनखः पुनस्तयाजनि पट्टान्तरदृष्टिवीक्षितः ॥ ५८ ॥ तदवेक्ष्य भिया जयी ययौ हेरिपृष्टावपरेऽपि ( ? ) तत्रसुः । उदयद्दयया ततस्तया दधतो भीतिमतीव सान्त्विताः ॥ १९ ॥ तदनु प्रणिपत्य तां तयानुमता नेमुरुपेत्य ते पृथाम् । कुलनाशभुवां शोरपां वितरन्तीं प्रमदाश्रणे पदम् ॥ ६० ॥ मखजामथ सूनुशोकिनीमधिरोप्याङ्कतटे प्रबोध्य च । तनयैश्व तया च संयुता सुबलक्ष्मापसुतां पृथानमत् ॥ ६१ ॥ ऋतुजामथ सौबली जगौ किमु वत्से शुचमेषि पश्य माम् । विधिदृष्टमिदं समागतं गतबन्ध्वात्मजयोरिहावयोः ॥ ६२ ॥ नियतानियतेर्नियो गतस्तनुभाजां मृतिरेति किं तु ते ।
धुनीतरणे तथा रणे मरणेनापि न यान्ति शोच्यताम् ॥ ६३ ॥ १. ' रनून' क. २. 'हरिषष्ठाप्यपरे' ख; 'हरिप्रष्ठोऽप्यपरे' इति भवेत्.
Aho ! Shrutgyanam
४१५