________________
४१४
काव्यमाला।
नृपतिनाकामिनीरुदिता तात्युपानमत ।
इति मङ्क्ष विचिन्त्य धर्मभूर्हरिसैनेयनिजानुजान्वितः । धृतराष्ट्रमुपेत्य तात ते सुतवैरी नमतीत्युपानमत् ॥ ३८ ॥ अथ कौरववीरकामिनीरुदिताकर्णनगद्गदस्वरः । नृपतिर्नतविष्णुसात्यकानुजनामानि पितुर्यवेदयत् ॥ ३९ ॥ तमथापरिरभ्य बुद्धिदृक्परिरब्धं बकशत्रुमाह्वयत् । बलवांस्तनयान्तकारिणं प्रहरिष्यन्भुजलीलयैव तम् ॥ ४० ॥ हरिणादित एव कारितस्तदभिप्रायविदायसोर्पितः । परिपीड्य चे वक्षसा पुमान्रभसागीमधिया विखण्डितः ॥ ४१ ॥ विनियुक्तसमग्रशक्तिना विधुरोऽसौ रुधिरं वमन्मुखात् । निपतन्भुवि मूर्छया रयादथ सूतेन धृतोश्वसत्क्रमात् ॥ ४२ ॥ अथ तद्दलनास्तमत्सरः प्रकटीभूतविवेकसंभ्रमः । हहहा किमघाति पाण्डवः स मयैवमित्यलोचनोऽरुदत् ॥ ४३ ॥ प्रणतोऽथ हरिस्तमभ्यधान्न स भीमः स महारि मा मुहः । छलितस्त्वमयःपुमर्पणादिह नागायुतशक्तिमान्मया ॥ ४४ ॥ इति वाक्श्रुतिहर्षितं हरिः कृतशौचं पुनराह धीदृशम् । अकृतेष्टवचाः स्वयं सुतानविषः कुप्यसि किं वृकोदरे ॥ ४५ ॥ अवधार्य निजापराधतः सुतवृन्दं हतमुर्वरावर । सुकृतज्ञ कृतं सुदुष्करं तदिदं नोऽनुमनुष्य सर्वथा ॥ ४६ ॥ इति वाचि जनार्दने जगौ धृतराष्ट्रः स्मयमानमानसः । सुतशोकभरेण धर्मतः प्रतपन्साध्वहमुद्धृतस्त्वया ॥ ४७ ॥ इतिगीरतिवत्सलोऽखिलानयमालिङ्गय विमत्सरस्ततः । विजयध्वमखण्डिताः परैरिति कल्याणमयीमुवाच गाम् ॥ १८ ॥ धृतराष्ट्रमतास्ततो गता लघु नन्तुं सुबलात्मजाममी । तपसस्तनयं तु सा शुचा परितप्ता परिशप्तुमैहत ॥ ४९ ।। तदवेत्य पराशरात्मभूषुधुनीस्पर्शशुचिटुंतागतः । सुबलस्य सुतां जगौ न गौः सति शापाय नृपस्य तन्यताम् ॥ १० ॥ १. 'तमथो' ख. २. 'विचक्षुषा' ख.
Aho! Shrutgyanam