________________
११स्त्रीपवे-१सगे:
बालभारतम् ।
तमथैत्य पराशरात्मभूः प्रतिबोधाब्धिसुधाकरोऽभ्यधात् । किमु मुह्यसि ते दिवं गताः सुखिनस्त्वां नृप न सरन्त्यपि ॥ २५ ॥ मृतयो हि भवानुचारिका बत जन्तुं भवनित्यबालकम् । गमयन्त्यमुमङ्कमङ्कतः कुरुते तन्ममतां मुधा जनः ॥ २६ ॥ अजनि स्वजनो न कस्य को न भविष्यत्यथवा भवभ्रमे । जगदेककुटुम्बिनो जनाः क्व विपन्ने जनयन्तु तच्छुचम् ॥ २७ ॥ इति मा कुरु शोकमुर्वरावर किंचाधमधीस्तवात्मजः । अवनाववतीर्णवान्कलेरयमंशः कमलासनाज्ञया ॥ २८ ॥ अहमिन्द्रसदस्यगां पुरा जगती तत्र गता जगौ सुरान् । विधिसंसदि कार्यमस्ति यत्प्रतिपन्नं तदुपास्यतामिति ॥ २९ ॥ अथ तां जगतीं विधि गौ वन लोकं लघुधात्रि धारय । धृतराष्ट्रसुतः सुयोधनस्तव कार्याणि करिष्यति द्रुतम् ॥ ३० ॥ दनुजावतरैनरैः कलेरवतारो बहुभिः सहायवान् । भवितैष समन्तपञ्चके निखिलक्षत्रियमृत्युकारणम् ॥ ३१ ॥ इति वेद्मि तवात्मनः कलिः कलिनिर्माणनिजापराधतः । सहितः स्वसहायमण्डलैः प्रलयं प्राप धराप मा मुहः ॥ ३२ ॥ इति गुह्यमवेत्य मुह्य मा भन धैर्य नृप धर्मवित्तम । त्वयि भक्तिपरो विमोहतस्तव जीविष्यति नापि धर्मसूः ॥ ३३ ॥ सुकृतज्ञ विधेर्विवर्ततो मम वाचापि निजानसून्धर । पितृधीः करुणां करिष्यति त्वयि धार्मिर्नृप पालयाद्य तम् ॥ ३४ ॥ इति वाङ्मतभाङ्महीपतिर्गतवत्याशु पराशरात्मजे । प्रचचाल समन्तपञ्चकं प्रति बन्धूनभिशोचितुं व्यसून् ॥ ३५ ॥ स इतश्च कृती युधिष्ठिरः परिदध्यौ गुरुनन्दनादिकाः । पुरनिःसृतमेत्य धीदृशं पृथगासन्निति मां चरा जगुः ॥ ३६ ॥ इयता समयेन तद्गतः कुरुवर्षान्तिकमेव नः पिता । अनुयामि ततस्तमङ्गजव्ययकोपी लघु मां शपत्यसौ ॥ ३७ ॥ १. 'अगाम्' इत्येतत्कर्तृभूतम्.
Aho! Shrutgyanam