________________
४१२
काव्यमाला।
विनिमीलितचक्षुषो नमच्छिरसः स्वासनतो नताङ्गकाः। प्रसृतांह्रियुगा लुठद्भुना रुरुदुर्मन्दमचेतना जनाः ॥ १२ ॥ अथ विस्तृतवक्त्रकन्दरप्रविशहाजलसेचनादिव । अतिशोकविमूर्छितं मनः कथमप्याप नृपस्य चेतनम् ॥ १३ ॥ विदुर घुगतात्मजन्मनस्त्वमनाथस्य ममैकको गतिः।। परिपालय मामिति ब्रुवन्स धरापतिराप कश्मलम् ॥ १४ ॥ पुनरातमना जनाधिपः प्रहितस्त्रैणसुहृज्जनो लपन् । विदुरेण च संजयेन च प्रियया च प्रतिभाजयञ्शुचम् ॥ १५ ॥ अपि भूरिचमूभैरोचिताः किमपि स्वल्पकसैन्यशालिषु । हहहा प्रहता मैंदङ्गजा व्रणलेशोऽपि न पाण्डवेष्वभूत् ॥ १६ ॥ क स सैन्यभरः क्व तहलं सुहृदः सूतसुतादयः क ते । क भवाँश्च सुयोधनः क्षितौ क्षममन्यत्किमु भागधेयतः ॥ १७ ॥ कठिनं विधिना विनिर्मितं हृदयं वज्रमयं मम ध्रुवम् । तनयव्ययदुःखपर्वतव्रजपातेऽपि न ययदीर्यत ॥ १८ ॥ अथ भूपमिति प्रलापिनं प्रसभोल्लासितगद्गदस्वरः । परिधौतमुखो गम्बुभिः प्रतिबोधाय जगाद संजयः ॥ १९ ॥ किमु शोचसि बुद्धिलोचन स्फुटवेदागमशास्त्रतत्त्ववित् । तनयास्तव वीर वर्मना यदवापुः पदमैशमद्भुतम् ॥ २० ॥ विदुरोऽपि जगाद सादरं नृप शोकं प्रतिलोकवत्कृथाः । समुपेत्य कुतोऽपि कुत्रचित्पथिकाभेषु गतेषु सूनुषु ॥ २१ ॥ निगदन्ति च रूपमात्मनस्तनयानित्यपि मा शुचं कृथाः । क्क हतेतरपद्धतिर्बहूकृतरूपः शुचमेति मन्त्रवान् ॥ २२ ॥ अधिकाधिकवैभवोद्भवे नृप तेषां मुदितोऽसि सर्वदा । दिवमेषु गतेषु भूतलादधुना किं कुरुषे शुचं कृतिन् ॥ २३ ॥ तनया मम पाण्डवैः क्षता मतिरेषापि तवास्तु मा शुचे । निहता निजकर्मणैव ते भववर्ती स्वकृतैकभुग्यतः ॥ २४ ॥ १. 'मन्द्र' ख. २. अपि विस्मृत' क. ३. 'प्ररोचिताः' ख. ४. 'मतङ्गजा' ख.
Aho! Shrutgyanam