________________
११ स्त्री पर्व - १ सर्गः ]
बालभारतम् ।
स्त्रीपर्व |
प्रथमः सर्गः ।
छलयुद्धहृताहितो हरिस्तपसे मुक्त कलत्रपुत्रकः । अविशच्छुचि यन्मनस्तपोवनमृद्ध्यै स पराशरात्मजः ॥ १ ॥ स इतश्च जगाम संजयः कृतफूत्कारमहारवः सुरम् । हहहा प्रहताः स्म इत्यपि प्रलपन्भूपतिवेश्ममाविशत् ॥ २ ॥ अथ भानुमतीमुखस्नुषाविदुरादिखजनजान्वितम् । दयितायुतमेत्य संजयो नृपतिं गद्गदया गिरा जगौ ॥ ३ ॥ अहमन्वहमेत्य विप्रियं प्रियवर्गव्ययमभ्यधां तव ।
४११
अधुनाप्यहितं वदाम्यतः शृणु वत्रीकृतहृन्महीपते ॥ ४ ॥ द्रुपदात्मजपाण्डवात्मजव्रजयुक्तं गुरुजादिभिर्बलम् | हरिसात्यकि पाण्डवोज्झितं निशि हत्वाभिगतैर्निवेदितम् ॥ ९ ॥ अपमोहवशः स सौप्तिकं प्रियमाकर्ण्य लसन्मनाः प्रगे । तनयस्तव हर्षितो ययौ दिवमेकादशवाहिनीविभुः ॥ ६ ॥ ( युग्मम् ) इति कोपनपद्मपन्नगीगरलोभिप्लवकल्पया गिरा ।
3
परिपेतुरुपेतमूर्छनाः क्षितिपीठे क्षितिवल्लभादयः ॥ ७ ॥ मुमुहुर्मुहुरुत्थिता मुहुर्मुहुरालप्य मिथोऽतिदैन्यतः । क्व नु यामि कथं भवामि किं करवाणीत्यरुदंस्तमाममी ॥ ८ ॥ प्रविकीर्णशिरोरुहां स्फुरत्परिकम्पां करुणप्रलापिनीम् । स्रवदखुदृशं सभामिमामथ शोको रसवत्तयास्पृशत् ॥ ९ ॥ धृतराष्ट्रसभेयमाविला घरणिस्फालितमौलिजा सृजाः । करुणस्य विलासकारणं शुशुभे पल्लविनी वनीव सा ॥ १० ॥ विधिपर्यनुयोगहोक्तिहृत्तटघातादिकविक्रियोज्झिता । अयि विस्मृतरोदकारणा प्ररुरोदेव सभासु निर्भरम् ॥ ११ ॥
१. 'वृद्ध्यै' क. २. जन्मशब्दवदस्य वेश्मशब्दस्यापि भवेदकारान्तत्वम्. ३. 'सहसा ते क्षितिवल्लभादयः' ख. ४. 'विस्मित' क.
Aho ! Shrutgyanam