________________
४१०
काव्यमाला।
ऊचे सत्यवतीसूनुः सत्यमस्तु हरेर्वचः । द्रौणे यतस्त्वया क्रूरं कर्माशूरोचितं कृतम् ॥ १०३ ॥ इति शप्तो मणि द्रौणिर्दत्त्वा तेभ्यो वनं ययौ। तेऽप्यगुद्रौपदी व्यासनारदाभ्यां युता द्रुतम् ॥ १०४ ॥ अथ रत्नं नभोरत्नसंपन्नं द्योतयन्पुरः । सामीरिराज्ञया राज्ञः कृष्णामभ्यधित स्मितः ॥ १०५ ॥ क्षत्रगत्या जितोऽस्त्रज्ञस्त्याजितोऽस्त्रशिरोमणिः । गुरोरङ्गज इत्यङ्ग न वगै गमितोऽद्य सः॥ १०६ ॥ अथ मुदमुदयन्ती द्रौपदी माह मान्यो
गुरुरिव गुरुसूनुर्युक्तमत्याजि जीवन् । मणिममुममराणां लोभकं शोभिताशं
निजशिरसि रसायाश्चित्तनाथो निधत्ताम् ॥ १०७ ॥ कुनयकुरुकुटुम्बच्छेदनात्खेदनाशः
समजनि मम जज्ञे द्रौणिमर्षाच्च हर्षः ।। अहमिति हरिमैव्यात्त्वत्रियत्वात्कृतार्थो
जगति सुगतिभाजो नैव शोचामि बन्धून् ॥ १०८ ॥ ते पुत्रास्तव बन्धवस्तव च ते न द्रोणिना जन्निरे
तत्तुष्टेन हता हरेण महतामेषां न शोच्यं महः । इत्युक्ते मुरवैरिणा सुकृतभूपृष्टेन हृष्टिं परां
भेजेऽसौ निजवर्गवीरवरलाज्ञानेन यज्ञाङ्गजा ॥ १०९ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मताहस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । वाणीवेश्मनि बालभारतमहाकाव्ये तदन्तगु
न्मेषप्रेषणभासि पर्व दशमं शान्ति ययौ सौप्तिकम् ॥ ११ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के नवमसगदायुद्धशल्यपर्वदशमसौप्तिकपर्वकीर्तनो नामाष्टत्रिंशः सर्गः ।
अनयोरेकसर्गेण शल्यसौप्तिकपर्वणोः । एकेन कल्पितान्यासञ्शतानि त्रीण्यनुष्टुभाम् ॥
Aho! Shrutgyanam