________________
१० सौप्तिकपर्व - १ सर्गः ]
बालभारतम् ।
किंतु शूरो गुरौ भक्तः सत्यब्रह्मत्रतोऽर्जुनः । नाहं तद्वदतो नेदमस्त्रं संहर्तुमीश्वरः ॥ ९० ॥ योsaमेतदसह्मचर्य सृट्रैव संहरेत् । एतेन सानुबन्धस्य मूर्धा तस्याशु लूयते ॥ ९१ ॥ अमोघमस्त्रमीदृक्षमीदृक्षक्षयशान्तये ।
अभिमन्युप्रियायास्तद्गर्भे भ्रूणे पतत्वदः ॥ ९२ ॥ रक्षोदानवदिव्यास्त्रव्याधिविघ्नादिजं भयम् ।
दलयत्याशु तेनायं न देयः स्याच्छिरोमणिः ॥ ९३॥
यच्छामि पितृशिष्येभ्यस्तथाप्येनं भवद्गिरा ।
अयं प्रलयसंरम्भः समन्ताच्छाम्यतामिति ॥ ९४ ॥ ( युग्मम् ) एवमेव विधेहीति मुनिभ्यां गदितस्ततः । तदस्त्रमुत्तरागर्भे प्रत्यमुञ्चत्कृपीसुतः ॥ ९९ ॥ अथावदगदापाणिर्द्रौणि भ्रूणो न दह्यताम् । क्षीणस्य कुरुवंशस्य कुलतन्तुर्भवत्वयम् ॥ ९६ ॥ व्रती विप्रः पुरा प्रोचे वैराटीं प्रति यत्तव । परिक्षीणेषु कुरुषु परीक्षिद्भविता सुतः ॥ ९७ ॥ तद्विजेश द्विजस्यास्य तद्वचो नान्यथा तथा । त्वत्पितृप्रियशिष्यस्य कुलमेतच्च वर्धताम् ॥ ९८ ॥ द्रौणिरूचेऽथ मा पक्षपाताद्वद गदाग्रज । अमोघेण मदस्त्रेण सैष भ्रूणोऽस्तु भस्मसात् ॥ ९९ ॥ कृष्णोऽप्यूचे विमुञ्चास्त्रममोघं भ्रूणभित्तये । अहं तु तपसा स्वेन जीवयिष्यामि तं सुतम् ॥ १०० ॥ भवान्पुनरपि क्रूरकर्मनिर्मितिपातकी ।
त्रीणि वर्षसहस्राणि चरिष्यत्यजने वने ॥ १०१ ॥
असहायो मलक्किन्नः पूतिशोणितगन्धभृत् ।
न प्राप्स्यसि क्वचित्कांचित्कस्यचित्संविदं पुनः ॥ १०२ ॥
५२
४९
Aho ! Shrutgyanam