________________
४०४
काव्यमाला।
जनो निर्यन्निधात्यो वामित्युक्त्वा भोजमातुलौ । सैन्यस्य द्वारि मुक्त्वान्तरद्वारा द्रौणिराविशत् ॥ २५ ॥ उत्थाप्याङ्गिप्रहारेण सुखं सुप्तं मखात्मजम् । उत्तिष्ठन्तं कचाग्रेषु क्रोधोग्रः सोऽग्रहीदमुम् ॥ २६ ॥ शस्त्रैर्नहीति जल्पन्तं मदस्त्राणि गुरुद्रुहम् । न स्पृशन्तीत्युदीर्णोक्तिः पशुवत्तं जघान सः ॥ २७ ॥ हत्वोत्तमौजसं तद्वदेव द्रौणिर्गतो रथम् । तध्यानैर्धावतो वीरान्रुद्रास्त्रेण न्यपातयत् ॥ २८ ॥ युधा मन्यु युधामन्युं धृत्वा धावन्तमुद्धतम् । गदोन्मुचमंशस्त्रेण रथोत्तीर्णः क्रुधावधीत् ॥ २९ ॥ बहूनपि मुहूर्तेन सुप्तानेवावधीद्भटान् । गन्धसिन्धुरगन्धर्ववृन्दानिव स खड्गभृत् ॥ ३०॥ पञ्चापि द्रौपदीपुत्रान्धावतो दुर्धरायुधान् । स जघानासिना तौ च शिखण्डिजनमेजयौ ॥ ३१ ॥ द्रुपदस्याथ पुत्राणां पौत्राणां सुहृदामसौ । प्रभद्रकाणां मत्स्यानामपि चक्रे महाक्षयम् ॥ ३२ ॥ दिग्जये ज्वालयित्वाग्निं तौ तु द्वारि स्वयं स्थितौ । जन्नतुः कृपहार्दिक्यौ भयतो निर्यतो भटान् ॥ ३३ ॥ वहिना तेन ताभ्यां च दह्यमानाश्चमूचराः । को हन्ति किमिदं हन्तेत्याक्रन्दं चक्रुरुच्चकैः ॥ ३४ ॥ रक्तस्रग्लेपना रक्तवाससं रक्तदृङ्मुखीम् । काली पात्रकरां नाशकरी पाशेन देहिनाम् ॥ ३५ ॥ कालरात्रिमलोकन्त हन्यमानास्तदा भटाः । द्रौणाङ्गजस्य कल्पान्तरुद्रस्येव पुरश्वरीम् ॥ ३६ ॥ (युग्मम् ) आयुधादि विनाकृत्यायुक्तं घ्नन्तं कृपीसुतम् । वीराः वनेषु तेऽपश्यन्वप्नस्तु फलितं मुँदा ॥ ३७॥ १. 'मथास्त्रेण रथोत्तीर्णे ख. २. 'पाशकरां' ख-ग. ३. 'तदा' ख.
Aho! Shrutgyanam