________________
१०सौप्तिकपर्व-१सर्गः] बालभारतम् ।
भुजाभाजां प्रतिजैकपालनं धर्मपालनम् । नस्तद्वधे प्रतिज्ञाते किं प्रष्टव्या जरन्नराः ॥ १३ ॥ अधुनापि ततो हन्मि निशि तानिशितायुधः। किं मे धर्मैरिति प्रोच्य प्रचचाल रथेन सः ॥ १४ ॥ इति प्रतिज्ञया यान्तं तन्तावप्यनुजग्मतुः । जन्तोः कर्मपरीपाकमिव बुद्धिक्रियान्वयौ ॥ १५ ॥ अथैत्य शिबिरद्वारि महाभूतं प्रभूतदृक् । असृमिश्रं महाकायं दोनिकायस्थिरायुधम् ॥ १६ ॥ दृडियद्भरिभीमास्त्रं हरि(१)वक्रोत्थितानलम् । रुण्डोपवीतं तेऽपश्यंश्चकिताः कृत्तिचीवरम् ।। १७ ॥ (युग्मम्) रत्नदीप्ताहिकेयूरे सूर्येन्दुसमतेजसि । द्रौणिस्तत्राफलीभूतशस्त्रपातो व्यचिन्तयत् ॥ १८ ॥ उल्लङ्घय कृपहार्दिक्यौ वृद्धौ स्वश्रद्धया स्फुरन् । एतामापदमाप्तोऽहं महेशानं श्रयेऽधुना ॥ १९ ॥ इति ध्यात्वा हुताशे खं जुहोमीति स्तुतो हरः । तेनाग्रे वीक्षितं चाग्निकुण्डं कल्याणवेदिकम् ॥ २० ॥ निःशङ्कशंकरध्यानो निर्यद्भूतततौ ततः। कार्यसिद्धिपुरद्वारीवाग्निकुण्डेऽत्र सोऽविशत् ॥ २१ ॥ स पुरारि पुरोऽपश्यत्ततः किमपि नापरम् । अथ प्रीतिभरस्मेरमुखोऽभाषि स्मरद्विषा ॥ २२ ॥ धर्मसूनुधरित्रीशचमू रक्षितुमक्षताम् । वत्स माया मयैवेयं चक्रे चक्र्युपरोधतः ॥ २३ ॥ सत्त्वेनानेन ते प्रीतः संप्रत्येव रिपूञ्जय । इत्युक्त्वास्मै हरो जैत्रं दत्त्वा खङ्गं तिरोदधे ॥ २४ ॥ १. 'तत्तद्वधे' ख-ग, २. 'चक्रो' क. ३. 'ड्रमततौ क. ४. 'तश्चमू संप्रत्यम जय ख-ग.
Aho! Shrutgyanam