________________
१० सौप्तिकपर्व - १ सर्गः ]
बालभारतम् ।
प्राग्भिया हरिपार्थानां स्वप्ने स्वप्ने न्वहं हताः । ते वीरा द्रौणिकृत्याभ्यां प्रत्यक्षं तु तदुज्झिताः ॥ ३८ ॥ कालरात्रिपरीवारपिशाचपलभुक्चमूः । देहभाजस्तदाखादज्जीवतोऽपि मृतानपि ॥ ३९ ॥
इति निःशेष्य तां सेनां शेषे यामद्वये निशः । ते त्रयोऽप्यमिलन्प्रातः प्रीताः प्रोक्तमिथः कथाः ॥ ४० ॥ गत्वाथ कौरवाधीशं निःसंज्ञं रक्तभुङ्मुखम् । रुरुदुः परितः स्थित्वा शुशुचुश्चास्य तां दशाम् ॥ ४१ ॥ ऊचुश्च नृप यद्यस्ति संज्ञा शृणु ततः प्रियम् । पाण्डवाच्युतसैनेयशेषाः सर्वे हता द्विषः ॥ ४२ ॥ तान्प्रियोक्त्या नृपोऽप्यात्तसंज्ञः प्राह वहन्मुदम् । न भीष्मद्रौणकर्णैश्च यद्भवद्भिः कृतं मम ॥ ४३ ॥ प्राणान्प्रीतोऽधुना मुञ्चे स्वर्गे सङ्गोऽस्तु नः पुनः । इत्युक्त्वाभूद्व्यसुर्भूषस्तमथालिङ्गय ते ययुः ॥ ४४ ॥ अथ पार्थमिया भोजः खदेशं हास्तिनं कृपः । व्यासाश्रमं कृपीसूनुर्गन्तुमैच्छद्दिनोदये ॥ ४९ ॥ सौप्तिकस्य कथायुक्ति प्राणमुक्तिं च भूपतेः । आख्यातुं धृतराष्ट्राय संजयोऽप्यचलद्दूतम् ॥ ४६ ॥ अथेदं कृतवर्मास्त्रान्निःसृतो निशि दैवतः । आख्यन्मखभवक्षत्ता सौप्तिकं कर्म धार्मये ॥ ४७ ॥ तच्छ्रुत्वा मूर्छितः कृष्णानुजभोजैर्धृतः पतन् । संज्ञां प्राप्यावदद्भूपो निःश्वसन्नश्रुमिश्रदृक् ॥ ४८ ॥ अस्माकं धिग्जयोऽप्येष जज्ञे स्वक्षयहेतुकः । शोच्यो लोकेषु वेसर्या इव पुत्रोद्भवोत्सवः ॥ ४९ ॥ अधारिदलनानन्ददुग्धाब्धौ स्थास्यति ध्रुवम् । धिग्भ्रातृपुत्रशोकातिपङ्किले द्रुपदाङ्गना || १० ||
Aho! Shrutgyanam
४०५