SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ९शल्यपर्व-१सर्गः) बालभारतम् । ४०१ क्ष्मापसिंहमथालिङ्गय सिंहनादनदन्नभाः । दक्षिणाभिमुखं द्रौणिः सहार्दिक्यकृपोऽचलत् ॥ १७८ ॥ तरणौ वरुणावासं याते तदुदयेषिणः । शिबिरस्य समीपेऽमी गैत्वा तस्थुर्वने धने ॥ १७९॥ श्रुत्वेति संजयाद्भूपं गान्धारी च शुचातुरौ । प्रतिबोधयितुं व्यासे समासेदुषि तत्क्षणम् ॥ १८० ॥ (युग्मम्) तयोः शापभयादेत्य पार्थेशप्रेरितो हरिः । गृहीत्वा नृपतेः पादावरुदद्रोदयन्सभाम् ॥ १८१ ॥ अथोत्थाय कृती कृत्वा शौचमूचे जनार्दनः । गान्धारी धृतराष्ट्रं च वचोभिर्दुःखगद्गदैः ॥ १८२ ॥ प्रकृष्टे दैवदृष्टेऽस्मिन्हन्त जातेऽन्वयक्षये । अत्यक्तधर्मा युवयोः क्रोधपात्रं न पाण्डवाः ॥ १८३ ॥ युद्धोद्यते सुते तस्मिन्याचमाने जयाशिषम् । युवाभ्यामेव गदितं यतो धर्मस्ततो जयः ॥ १८४ ॥ युष्मदाज्ञा कृतः पार्थो द्रष्टव्याः पुत्रवत्ततः। मुहुर्बुवाण एवेदमुदस्थात्सहसा हरिः॥ १८५ ॥ निशायुद्धेऽस्ति धीद्रोणेस्तत्रातुं यामि पाण्डवान् । एवं ब्रुवन्सुतान्पाहीत्युक्तो राज्ञा हरिययौ ॥ १८६ ॥ व्यासेऽप्याश्वासनावाचश्वञ्चयित्वा तिरोहिते ।। ज्ञातुं रजनिवृत्तान्तं संजयं प्राहिणोन्नृपः ॥ १८७ ॥ तानि स्मरन्कृपकपीश्वरसिद्धसिन्धुसूनुप्रबोधवचनान्यवधीरितानि । दुर्योधनप्रधनपातविमुह्यमानबुद्धिकृति न धृतराष्ट्रनृपः प्रपेदे ॥१८॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः ___ पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । शोभाशालिनि बालभारतमहाकाव्ये तदेकाक्षरध्यानाधानमहाफले च नवमं शल्यस्य पर्वागमत् ॥ १८९॥ इति नवमं शल्यपर्व (सगदायुद्धम् ।) १. 'तदुभये' ख. २. 'तस्थुर्गत्वा विनद्य ते' ख-ग. ३. 'इति संजयवाचातौं' ख-ग. ४. 'नृपं च तौ' ख-ग. Aho! Shrutgyanam .
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy