________________
काव्यमाला।
क्षितौ पतन्मुहुर्बाहुमूर्धानं विधुवन्मुहुः । मृगन्सारं मुहुश्चक्षुर्जगादाथ कुरूद्वहः ॥ १६५ ॥ दिष्ट्या साम्राज्यमासाद्य स्वविनाशभिया भुवम् । क्वापि प्रत्यर्थिनां नाहमर्थिनां च पराङ्मुखः ॥ १६६ ॥ दिल्या कलावसुस्थानदानेन सततं मया । चक्रिरे परमप्रीताः सज्जना दुर्जनाश्च ते ॥ १६७ ॥ परं प्रति भयोल्लासं बिभ्रद्भिरनिशं मया । दिष्ट्या धीरैश्च वीरैश्च सह . गोष्टीरसः कृतः ॥ १६८ ॥ शुभवत्सकलोत्साहा दिल्यानुसमयं मया। भवार्णवमहानावो गावो विप्राश्च पूजिताः ॥ १६९ ॥ लब्धं भीमस्य सांमुख्यात्कुरुदेशव्यवस्थितम् । दियाभूदुज्ज्वलं राज्यकरणं मरणं च मे ॥ १७० ॥ दिश्या पुण्यप्रदा ब्रह्मकेशवेशा इव त्रयः । महाक्षयेऽपि जीवन्तो भवन्तो वीक्षिता मया ॥ १७१ ॥ तन्मास्स कुरुत क्षत्रोत्साहनिर्वाहशालिनः । शोकं लोकंपृणाशेषचरितस्य मृतस्य मे ॥ १७२ ॥ इत्युक्त्वा मौनिनि क्षोणीपतौ रोषारुणेक्षणः । पिंषन्करं करेणाह रौद्रिः साहसिकाग्रणीः ॥ १७३ ॥ दुःखाय माप न तथा वधोऽप्यनुचितः पितुः । यथाद्य त्वदवस्थेयं मम मर्माणि कृन्तति ॥ १७४ ।। तदद्य पञ्च पाञ्चालान्पञ्च यज्ञसुतासुतान् । पाण्डवान्पञ्च पञ्चत्वं नयाम्यायान्ति चेत्पुरः ॥ १७५ ॥ तदा दश दिशः सर्वा नादयन्हर्षनिस्वनैः । यथा यामि पृथासूनुपृतनानाशमानसः ॥ १७६ ॥ इत्याकर्ण्य नृपः प्रीतः कृपमादिश्य तत्क्षणम् ।
सरस्वतीजलेनामुं सैनापत्येऽम्यषेचयत् ॥ १७७ ॥ १. 'दिष्टयास्तदु' ख.
Aho! Shrutgyanam