________________
९शल्यपर्व-१सर्गः] बालभारतम् ।
३९९ इत्यादिवादिना तेन विषमस्थेन भूभुजा । राजन्वच्मि किमात्मानं भूरुहोऽपि प्ररोदिताः ॥ १५२ ॥ अथाकर्ण्य व्यथाकीर्ण कथकेभ्यः कुरूद्वहम् । तीर्थ ते द्रौणिहार्दिक्यकृपाः शयनमाययुः ॥ १५३ ॥ तत्र नि ठिताङ्गस्तैरिलापतिरलोक्यत । स्वर्ग गन्तुमिव क्षोणिं प्रच्छन्नालिङ्गनैर्धनैः ॥ १५४ ॥ अथावदत्कृपीसूनुरश्रुधाराक्तलोचनः । पृथ्वीपतेनियमयन्विकीर्णान्मूर्धनान्मुहुः ॥ १५५ ॥ विश्वं विश्वंभरागोलं तोलयित्वा चमूभरैः । धिग्धिगद्यागतो राजन्नवस्थां कथमीदृशीम् ॥ १५६ ॥ संव्यज्यथा यथाकामं चामरैर्यः पुराध सः । त्वं मरुद्भिः स्फुरत्केशः स्थलानां चामरीकृतः ॥ १५७ ॥ स्पृष्टां हिणापि या न प्राग्दुर्भगेव महीपते । सुभगामिव सर्वाङ्गमालिङ्गस्यद्य तां महीम् ॥ १५८ ॥ तवार्कस्य च तेजोभिः स्पर्धया तपसो मिथः । यत्पुरा प्राविशन्मध्यं छत्रं कुत्र तदद्य ते ॥ १५९ ॥ अलङ्घत भवान्वाहैयाँ मरुत्तरलैः पुरा । साद्य त्वां लङ्घते भूमिभूमिनाथ रजःकणैः ॥ १६० ॥ कुम्भिकुम्भौ स्पृशन्कुम्भस्तनीभिर्वीक्षितो रुषा। यः पुरा स शिवाभिस्त्वं क्ष्मां गतो वीक्ष्यसे मुदा ॥ १६१ ॥ क्षणं गीतिविरक्तेन चक्रचीत्कृतिकौतुकात् । पुरावाहि रथो येन सं शृणोषि शिवारुतम् ॥ १६२ ॥ इतस्ततः स्फुरन्वीरैरुक्तो जीवेति यः पुरा । उच्यसे स म्रियस्वेति पलादैः स्वस्वभाषया ॥ १६३ ॥ दिने दानभरश्रान्तो विश्रान्तः स्त्रीकुचेषु यः ।
स ते हस्तः क्षितौ वेल्लन्न विश्राम्यति संप्रति ॥ १६४ ॥ १. 'अवीज्यत' क. २. 'रात्रौ च' ख-ग.
Aho! Shrutgyanam