________________
३९८
काव्यमाला |
तानथाह हरिः पापैः स्वैरेवायं हतः पुरा ।
भीमेनाद्य हतोऽस्त्रेण वाग्भिः किं हन्यतेऽधुना ॥ १३९ ॥ फिनिविष्ट भुवं दोर्भ्यामवष्टभ्योन्नताननः ।
भ्रू संकटललाटोsथ कुधाह त्वत्सुतो हरिम् ॥ १४० ॥ रे कंसदासदायाद स्वैरधर्मैर्वयं हताः । त्वद्दिष्टैर्धर्मयोद्धारो नाधर्मैः किं ता मृधे ॥ १४१ ॥ भीष्मो भूरिश्रवा द्रोणः कर्णोऽहमपि कैतवात् । निपात्येमहि युष्माभिः पापिभिः शोच्यविक्रमैः ॥ १४२ ॥ धर्मयुद्धतनूशेषीकृतारिः सर्वकृत्यकृत् । आजन्मसुखितः संख्ये कः परोऽहमिवापतत् ॥ १४३॥ इत्युक्तवति वीरेऽस्मिन्मुक्ताः पुष्पस्रजः सुरैः ।
स्वं शोचन्तस्ततः पार्थाद्विनिवासान्समासदन् ॥ ९४४ ॥ अथोत्तीर्णे सतूणास्त्रपार्थेऽन्तर्हितवानरः ।
साश्वः सरश्मिः सर्वाङ्गं दग्धः कृष्णोज्झितो रथः ॥ १४५ ॥ द्रोणकर्णालीढोऽग्रेऽधुना मदवधीरितः ।
दग्धो रथोऽयमित्यूचे पार्थपृष्टोऽच्युतस्तदा ॥ १४६ ॥ अथामृत्युर्जयो भूतिः सर्वे नस्त्वत्प्रसादतः ।
इति ब्रुवन्हरिं तत्र निवासानगृहीनृपः ॥ १४७ ॥ याम औघवतीमत्र श्रेयसेऽद्य सरखतीम् । इत्युक्त्वा शिबिरात्कृष्णोऽकृषत्सात्यकिपाण्डवान् ॥ १४८ ॥ अत्रान्तरे महार्तिर्मामूचे भूप भवत्सुतः । कृतं मे मायया पश्य पाण्डवैर्मानखण्डनम् ॥ १४९ ॥ शक्त्या संवलितश्चार्व्या चार्वाको यदि जीवति । स परिव्राट् सुहृद्वैरपारं मम गमिष्यति ॥ ११० ॥
तौ मातापितरौ वृद्धौ स्वसा मुग्धा च दुःशला । धन्योऽहं दिवि यास्यामि भविष्यन्ति कथंचन ॥ १५१ ॥
१. 'मृता' क. २. 'इहा' ख-ग.
Aho ! Shrutgyanam.