________________
९शल्यपर्व-१सर्गः] बालभारतम् ।
तं मत्वाप्रहरिष्यन्तं नापपात पुनर्नृपः । निहन्यात्तदवस्थं चेत्तं न जीवेद्वकोदरः ॥ १२६ ॥ मूर्छन्ते तलमालोक्य तेनोर्ध्व प्रेरिता गदा । मुञ्चतस्तलमुत्पत्य नृपस्योरं बभञ्ज सा ॥ १२७ ॥ तदोत्पातसहस्रेण विश्वे(?)वैधुर्यधारिणि । 'पपात विचलत्पादः श्रीलतापादपो नृपः ॥ १२८ ॥ निकारान्विषदानादी नुन्नादी श्रावयंस्तदा । पदा भीमो स्पृशन्मौलिमेकादशचमूपतेः ॥ १२९ ॥ अस्मान्द्यूतच्छलाजित्वा कृष्णां गौरिति ये जगुः । धर्मयुद्धान्निहत्याद्य ब्रूमो गौरिति तान्वयम् ॥ १३० ॥ इत्युद्दामवचा भीमो वार्यमाणोऽपि धार्मिणा । पुन कृतिकेत्युक्त्वा भूपं मूर्ध्नि पदास्पृशत् ॥ १३१ ॥ रुदन्नथाह त्वत्पुत्रो धार्मिबन्धो विधिर्वली । पितृव्यपुत्रयोरासीद्यद्वैरं नौ कुलान्तकृत् ॥ १३२ ॥ किं रे छलेन जित्वापि स्पृशसि क्ष्मापमंहिणा । इत्युक्त्वाथ बली भीमं हली क्रोधादधावत ॥ १३३ ॥ कटेरधो न हन्तव्यं गदयेति विदन्नपि । अस्योरुं भग्नवान्भीमः प्रतिज्ञापालने कृती ॥ १३४ ॥ अस्योरुभने मैत्रेयमुनिशापस्तथाफलत् । इत्यादिभिस्तदा वाग्भिः शौरिणा बोधितो बलः ॥ १३५ ॥ पाण्डवाश्छलयोद्धारः कौरवा धर्मयोधिनः । इत्यस्तु ख्यातिरित्युक्त्वा क्रुद्धोऽथ द्वारकां ययौ ॥ १३६ ।। युद्धे धर्मेऽप्यधर्मेऽपि पाण्डवाः काममाप्नुयुः । इत्यूचेऽथ वचः कृच्छ्राद्धार्मिणाभ्यर्दितो हरिः ॥ १३७ ॥ दिष्ट्या दुष्टस्य दत्तोऽह्रिस्त्वया मूर्ध्नि रिपोरिति ।
स्तुतोऽथ भीमः पाञ्चालैर्धामिलालितपौरुषः ॥ १३८ ॥ १. 'मुस्तुत्य' ग. २. 'कारिणि' क. ३. 'ऋजु ख-ग. ४. 'भ्यर्थितो ख-ग.
Aho! Shrutgyanam.