________________
काव्यमाला ।
अथ वक्षसि दक्षेण भीमो भूपेण ताडितः । आलिलिङ्ग क्षणं कम्पी मूर्ची मीलितलोचनः ॥ ११३ ॥ भीमेनाश्वस्य नृपतिस्ताडितः प्रपतन्भुवि । स्थितोऽसौ जानुहस्तायै रिपुं सिंह इवैक्षत ॥ ११४ ॥ हर्षात्पाञ्चालचक्रेषु संक्रोशत्सु क्रुधोत्थितः । दिकूलं कषनिर्घोषः शङ्ख भीममताडयत् ॥ ११५ ॥ रक्तारुणः कम्पमानः पवमानसुतः क्षणम् । रेजेऽर्कबिम्बवत्कालक्रीडासरसि संगरे ॥ ११६ ॥ आहत्य भुवि भीमेन पातितस्तव नन्दनः । अविलम्बितमुत्थाय सोऽपि भीममताडयत् ॥ ११७ ॥ स्वतोऽप्यधिक एवायं तदा मेने युधि ध्रुवम् । त्वद्भर्देवैरपि यतः पूजितः पुष्पवृष्टिभिः ॥ ११८ ॥ भीमे प्रमृज्य कीलालं पुनयुद्धार्थमुत्थिते ।
अधिकः कोलयोरित्थं पार्थप्टष्टो हरि गौ ॥ ११९ ॥ [मौतुः पुरोऽयं दिग्वासा धर्मभूवचसा व्रजन् । निषिद्धोऽथ मया युक्त्या पुष्पकावरणो गतः ॥ १२० ॥ मात्रेत्युक्तो विलोक्याङ्गं नेत्रबन्धविमुक्तया। हरिणा वञ्चितः किं त्वं रक्षणीयमुरुं क्षतात् ॥ १२१ ॥] बली भीमः कृती भूपः कृतिना जीयते बली । छलयुद्धेन भङ्क्त्वोरुं यदि भीमो जयत्यमुम् ॥ १२२ ॥ इति श्रुत्वोत्तरानृत्यगुरुः स्वामुरुमाहत । भीमे पश्यति हस्तेन नर्तयिष्यन्निव श्रियम् ॥ १२३ ॥ आदाय भीमस्तां संज्ञां प्रतिज्ञां खामथ स्मरन् । चचार विविधाश्चारीढेिषदूरुभिदामतिः ॥ १२४ ॥ तेनाशु मुक्तामुल्लङ्घय गदां त्वत्सूनुना हतः ।
संमूर्छितः स्थितः पाणिवक्षःस्तब्धगदः क्षणम् ॥ १२५ ॥ . १. 'रिपुसिंह इवैश्यत' ख-ग. २. 'पातयत्' ख-ग. ३. कोष्टकान्तर्गतः पाठः ख-ग-पुस्तकयो!पलभ्यते.
Aho! Shrutgyanam