________________
३८६
काव्यमाला।
आकृष्य शस्त्रैरदतो गृहाण गताक्षचेष्टस्य वपोर्वसुत्वम् । सेवाकृते निष्फलमेव दानमवेह्यकल्पं जरसावृतं माम् ॥ १२५ ॥ यदाङ्गमा च्छुरिकां विहर्तुमुद्यत्करोऽभूद्धरिणा तदोक्तः । तुष्टेन कर्णाद्य परीक्षितोऽसि वरं वृणीष्वेति चतुर्भुजेन ॥ १२६ ॥ भूतानुकम्पा हरिपादसेवां दीनेऽर्थदानं द्विनभोजनानि । एभिवरैरथितचित्तवृत्तेर्वरान्ददौ सूर्यसुतस्य विष्णुः ॥ १२७ ॥] दानैकशौण्डः परमार्गणाय तदाङ्गमप्यङ्गपतिः प्रदाय । दिशो दशापि द्युतिभिर्विभिन्दन्नके पितुः केन पतन्न दृष्टः ॥ १२८ ॥ उत्कृत्तकर्णा मदपौरुषाभ्यां सा कुण्डलाभ्यामिव वर्जिता च । कीर्त्या हसत्यैन्द्रिभुजे ह्रियेव पराङ्मुखाभूत्कुरुराजसेना ॥ १२९ ॥ मूनां च तस्मिन्पतितेऽपि बन्धौ दुर्योधनो युद्धरसेन धावन् । त्वत्सूनुराश्चर्यकरः सुराणां वीरेषु रेखां विशदां तदाप ॥ १३० ॥ मुक्तात्मने जलमिव वसुताय दातुं
यातेऽथ पश्चिमपयोनिधिमुष्णरश्मौ । एके मिताक्षि कुमुदा विदधुः प्रवीराः
प्रम्लानवक्रकमलाश्च परेऽवहारम् ॥ १३१ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। पर्वेदं रविनन्दनस्य जगदानन्दे तदास्यामृतज्योतिर्योतिषि बालभारतमहाकाव्ये जगामाष्टमम् ॥ १३२ ॥
अनेनैकेन सर्गेण कर्णपर्वण्यनुष्टुभाम् ।
शतमेकमिहोत्पन्नं त्रिभिर्युक्ता च सप्ततिः ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये
वीराङ्के कर्णपर्वणि कर्णवधो नाम प्रथमः सर्गः ।
कर्णपर्व समाप्तम् ।
Aho! Shrutgyanam